Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 85
________________ आचारसारे AMAVA LIAAAAAA अथैकादशोऽधिकारः ॥ ११ ॥ --+re:श्रियं ममैनस्तिमिरक्षयोज्ज्वलां सन्मार्गगः श्रीविमलः क्रियात्सदा । जिनो निजानंतवरैर्गुणोत्करैविराजमानो जनताब्जभास्करः॥१॥ जीवस्य कर्मणो भेदवेदनायेदमुच्यते । संक्षेपेणाज्ञसंज्ञप्त्यै जीवकर्मप्ररूपणम् ॥२॥ जीवो गुणोऽस्य पर्याप्तिः प्राणः संज्ञा तु मार्गणाः। चतुर्दशोपयोगश्चेत्याचं विंशतिभेदगम् ॥३॥ प्रसादीनां चतुर्युग्मेष्वविरुद्धोदयान्वितात् । जातिकर्मोदयाज्जीवसमासाः स्युश्चतुर्दश ॥४॥ त एते स्थूलसूक्ष्मैक क्षद्वित्रिचतुरिन्द्रियाः। संझ्यसंड्यंगिपंचाक्षपर्याप्ततरसंज्ञकाः॥५॥ संगृहीतविशेषद्विसामान्यत्वादितीरिताः। नैगमाश्रयणादेवमन्यत्राऽपि निरूपयेत् ॥६॥ (युग्मम् ) सचित्ताऽचित्तमिश्रोष्णा शीता मिश्रा च संवृता। विवृतेत्यंगिनामष्टौ स्युः सन्मूर्छनयोनयः॥७॥ सचित्ताचित्तयोमिश्रा संवृतेतरयोरपि । शीतोष्णमिश्राः पंचैवं जीवानां गर्भयोनयः ॥ ८॥ उपपादयोनयः स्युः शीतोष्णाचित्तसंवृताः। संवृतैकेन्द्रियेऽन्येषु विवृतोष्णा त्वग्निकायिके ॥९॥ जरायडजपोताः स्युर्गर्भेऽप्येवोपपादिकाः । नाकिनो नारकाश्चान्ये स्युः सम्मूर्छनयोनयः ॥१०॥ सप्तसप्तनिगोदद्वयोतिोयाग्निवायुषु । प्रत्येके दशयोनीनां षडपिंडद्विकलेन्द्रिये ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106