Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 89
________________ आचारसारे आयुरन्तर्मुहूर्तः स्यादेषोऽप्यष्टादशांशकः। उच्छासस्य जघन्यं नृतिरश्चां लब्ध्यपूर्णके ॥ ५० ॥ शुद्धोायुः सहस्राणि द्वादश व्ययविंशतिः । खरो- सप्त वर्षाणां तोयेऽनौ स्याद्दिनत्रयम् ॥५१॥ त्रीण्यब्दानां सहस्राणि वायुजीवे वनस्पतौ। सहस्राणि दश द्यक्षे द्वादशाब्दानि केवलम् ॥ ५२ ॥ दिनान्यकोनपंचाशत् ब्यक्ष्ये स्युश्चतुरिन्द्रिये । मासाः षडिहगेऽब्दानां सहस्राणि द्विसप्ततिः॥ ५३॥ द्विचत्वारिंशदब्दानां सहस्राणि भुजंगमे । नवोऽरःपरिसर्पाणां पूर्वांगानि वरायुषि ॥ ५४॥ पूर्वकोट्यवरे संज्ञिन्यप्येतौ भोगभूमिषु । त्रसाः सम्मूछिनो ये च न भवन्ति स्वभावतः ॥ ५५॥ जघन्यमध्यमोत्कृष्टभोगभूमिष्ववस्थितम् । स्यादेकद्वित्रिपल्यायुर्नित्यास्वन्यासु तद्वरम् ॥ ५६ ॥ पूर्वकोट्येकपल्यं च पल्यद्वयामिति त्रयम् । समयेनाधिकं तासु नृतिर्यविवरं कमात् ॥ ५७ ॥ कर्मभूमिषु सर्वासु पूर्वकोटी मता स्थिातः । वरार्यम्लेच्छखंडोत्थवियच्चरनरेषु तु ॥ ५८ ॥ पूर्वकोटी वरं कर्मभूष्वायुस्तुर्यकालवत् । अनित्यकर्मभूषु स्यान्म्लेच्छविद्याधरक्षितौ ॥ ५९॥ असुरेऽर्णवोपमः स्यान्नागे पल्यत्रयं क्रमात् । सुपर्णद्वीपशेषेषु भौमे चाभर्द्धहीनकम् ॥६०॥ लक्षसहस्रशताब्दर्युक्तं पल्यं विधाविने । शुक्र क्रमाद्गुरौ पल्यं ग्रहेष्वन्येषु तद्दलम् ॥ ६१ ॥ परा पल्यचतुर्भागः स्थितिस्तारासु तद्दलम् । जघन्या पल्यमेकं स्यात्सौधर्मेशानकल्पयोः॥६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106