Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 91
________________ आचारसार नारकाणां खरः कायोऽत्यशुभाभिन्नविक्रियः। करालः कालो दुर्गन्धो धातूनोन्तर्मुहूर्ततः ॥ ७६ ॥ अणिमादिगुणं सप्तधात्वपेतं मनोहरम् । जायतेऽन्तर्मुहूर्तेन देवांगे नवयौवनम् ॥ ७७॥ पंचाक्षायुर्मनोवाकाथाऽऽनापाना दशांगिनः । प्राणंत्येभिरिति प्राणा बाबैरन्नादिभिर्यथा ॥ ७८ ॥ संड्यादौ स्युर्दशैकैकहीनास्तेन्त्ये द्विवर्जिताः। पूर्णे त्वपूर्णके सप्त सप्तैकैकविहीनकः ॥ ७९ ॥ संज्ञा वाञ्छाश्चतस्त्रः स्युरत्राऽमुत्र च दुःखदाः। आहारे भयतो मैथुनेगिनां ताः परिग्रहे ॥८०॥ ते गताविन्द्रिये काये योगे वेदकषाययोः । संयमे दर्शने ज्ञाने लेश्याभव्यत्वयोरपि ॥ ८१ ॥ सम्यक्त्वसंज्ञित्वाऽऽहारे गुणिनो मार्गणा इति । मृग्यन्त एभिरिति वा स्वकर्मभ्यश्चतुर्दश ॥ ८२ ॥ (युग्मम्) गतयो नारकतिर्यमनुष्यामरपर्ययाः चतस्रो गतिकर्माणि तत्तन्निर्मापकानि वा ॥ ८३ ॥ स्पर्शनादीन्द्रियैर्युक्ता रसनायेकवृद्धिभिः। एकद्वित्रिचतुःपंचाक्षांगिनः स्वोक्तकर्मभिः ॥ ८४ ॥ भूवारिवन्हिवातांगा ये वनस्पतिकायिकाः। स्थ्लाः सूक्ष्माश्च ते सर्वे भवंत्येकेन्द्रियांगिनः ॥ ८५ ॥ शंखशुक्तिनखक्षुल्लकक्षेदिककपर्दिकाः। गंडूपदोदरकृम्याद्याश्च ते द्वीन्द्रियांगिनः ॥ ८६ ॥ गोभीन्द्रगोपवृश्चिकधूकालिक्षापिपीलिकाः। कुन्थुस्त्रीमत्कुणाद्याश्च जिनेन्द्रैस्त्रीन्द्रियाः स्मृताः ॥ ८७॥ मृगः पतंगः कीटश्च दंशो मशकमक्षिके । मधु गोमक्षिकाद्याश्च देहिनश्चतुरिन्द्रियाः ॥ ८८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106