Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७६
आचारसारे
देहे स्नेहयुते लगत्यविरतं रेणोर्गणोऽयं यथा मिथ्यावृत्तकषाययोगकलुषेऽजस्रं सजत्यंगिनि । तद्वत् स्वैकशरीरगाः सुमिलिताऽनंताणवो वर्गणा , विश्वात्मावयवेष्वनंतगणना नो कर्मणां कर्मणाम् ॥ ३९ ॥ दष्टे दुष्टविषाहिनांऽगिनि यथा नष्टप्रचेष्टे विषं पुष्यज्जांगुलिकेन मंत्रबलिना संस्तंभितं तिष्ठति । सम्यक्त्वव्रतनिष्कषायपरिणामाऽयोगताभिस्तथा मिथ्यात्वादिचतुःस्वहेतुविगमानूत्नैनसां नागमः ॥४०॥ संश्लिष्टात्मबलस्य निर्गलनतो निःशेषविश्लेषतश्चान्तर्बाह्यचतुः स्वहेतुवशतः स्वर्णोपले स्वर्णता। यद्वद्देहिनि कर्मणोंऽशगलनानिःशेषविश्लेषतः सम्यक्त्वग्रहणाद्यनेककरणैस्तद्वद्विशुद्धात्मता ॥४१॥ मध्यांशः परितोऽप्यनंतवियतो लोकस्त्रिवाताऽऽवृतः पंचद्रव्यचितः प्रकर्तृरहितो नित्यः सदाऽवस्थितः । संस्थानेन तु सुप्रतिष्ठकसमोऽसंख्यप्रदेशप्रमो मध्यस्थत्रसनालिरत्र भविना स्पृष्टं न दृष्टं पदम् ॥४२॥ नैकाक्षर्विकलाक्षपंचकरणासंज्ञव्रजैर्जातु या लब्धा बोधिरगण्य पुण्यवशतः संपूर्णपर्याप्तिभिः । भव्यैः संज्ञिभिराप्तलब्धि विधिभिः कश्चित्कदाचित् क्वचित् प्राप्या सा रमतां मदीयहृदये स्वर्गापवर्गप्रदा ॥४३॥ दाताऽभीष्टविशिष्टवस्तुनिचयस्याकांक्षिणेऽपि क्षणाद्ध र्तेनरनारकादिभवसंभूतेः स्मृतेर्भीकृतेः। हंताऽऽकान्तजगत्रयांतकरिपोर्यः स्वान्तगः संस्तुतस्त्राताऽत्राणशरीरिणां न हि परो धर्मात्सुशर्मप्रदात् ॥४४॥ श्रद्धानं सदशंकितादिसदनं तत्त्वार्थसंचिन्तनं संवेगः प्रशमोदयेन्द्रियदमः प्राज्योधमः संयमः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106