Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 77
________________ आचारसारे मिथ्यात्वोरुतमस्तिरस्कृतसुदृरज्ञानोऽधिकक्रोधवान् स्तब्धः सत्स्वपि वंचनांचितमतिर्लुब्धः परार्थेष्वपि। दुर्लेश्यावशगाशयश्च भवति ध्याताऽशुभध्यानयोध्येयं ध्यानविशेषलक्षणविनिर्देशक्षणे लक्ष्यते ॥ १३ ॥ जीवाजीवकलत्रपुत्रकनकाऽगारादिकादात्मनः प्रेमप्रीतिवशात्मसात्कृतबहिःसंगाद्वियोगोद्गमे । क्लेशेनेष्टवियोगजार्त्तमचलं तच्चिन्तनं मे कथं न स्यादिष्टवियोग इत्यपि सदा मन्दस्य दुःकर्मणः ॥१४॥ कूरैर्व्यन्तरचौरवैरिमनुजैालैर्मृगैरापदि प्राप्तायां गरलादिकैश्च महती तन्नाशचिन्ताऽऽपदा। संयोगो न भवेत् सदा कथमिति क्लेशातिनुन्नं मनः श्वार्तध्यानमनिष्टयोगजनितं जातं दुरन्तैनसः॥१५॥ बाधासंजनितार्त्तमर्तिनिहितं स्वान्तं नितान्तस्थिरं तीव्राद्विश्वपरीषहान्मम कदा विश्लेष इत्यगिनः । दीनस्यास्तविशिष्टवस्तुविषयज्ञानस्य न स्यात्कथं क्लेशाल्या मम जातु संगम इति क्लिष्टं च तत्स्यान्मनः ॥१६॥ नानोपायचयेन नीचचरितान्त्वा विशालामिलामाभीलं मकराकरं च बहुशो तुच्छेच्छया प्राप्य यत् । प्राप्यं पुण्यवता जनेन कनकं कान्तं च कान्तादिकं तत्कांक्षाक्षुभिता मतिर्बत निदानात महार्तिप्रदम् ॥ १७ ॥ ग्लान्यश्रूद्गमशोकशोषजडतामूछोगकंपोत्कता निःश्वासस्वरभंगकाष्र्ण्यकृशतामौनाऽभिवीक्षामृतिप्रस्वेदाऽनिमिषेणास्थितिरुजायाञ्चामृषोत्यादयः स्पष्टाः स्वस्य परस्यवाऽऽतजनितास्तज्ज्ञापकाः कायिकाः१८ अतिदुःखमसातजातजनितं स्यादातमत्तौ भवं पापाऽऽदाननिदानमाईसिचयं यद्वद्रजःसंश्रयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106