Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 78
________________ दशमोऽधिकारः । मिथ्यादृष्टिगुणादिषडुणपदं येन प्रमादास्पदं दुर्लेश्यात्रयजं सुदुःखजनकं तिर्यग्गतिप्रापकम् ॥ १९ ॥ हिंसानन्दमसातका रणगणैहिंसारुचिर्देहिनां भेदच्छेदविदारणासुहरणैरन्यैश्च तैर्दारुणैः । रोषेर्ष्याद्युदितैरसत्यवचनैरन्यस्य हान्या मृषानंद रौद्रमसातसन्ततिपदे मिथ्याप्रलापे रुचिः ॥ २० ॥ स्तेयानन्दमवाप्य यत्परधनं वंद्यादिनिंद्येहितैरानंदित्वमवाप्तुमुत्सुकतरं चेतश्च तैस्तद्भवेत् । स्वं संरक्ष्य विपक्षदूरमुदिता तोषोग्रता या तु संरक्षानंदमपि स्ववस्तु निखिलं निर्वैरि कुर्वे इति ॥ २१ ॥ अक्षापाटवमाननाऽक्ष्यरुणता दाहश्च देहे महान् हेत्युत्क्षेपविरूक्षवाग्भृकुटयः शक्तिप्रशंसात्मनः । स्वेदस्वाधरनिष्ठुरग्रहकराघातांगकंपादयः कायांकाः स्वपरावबोधविषयास्तद्रौद्रभावोद्भवाः ॥ २२ ॥ रुद्रःक्रूरतराशयो गतदयो रौद्रं हि रुद्रे भवं आई चर्म यथोरुधूलिनिलयं तद्वत्कुकर्मालयम् । पंचस्वादिगुणेषु तीव्रतरतत्कृष्णत्रिलेश्योद्गतं ७३ प्रोद्यत्तीव्रतरार्त्तिनारकगतिप्राप्तर्निमित्तं मनम् ॥ २३ ॥ 'ध्याताऽपेतजनोक्तगीतवितताऽऽतोद्यादिकोलाहले स्थाने स्थावरजंगमांगिरहिते पूते नितांतं समे । निछिद्रे निरुपद्रवे पृथुशिललाद्ये मुखस्पर्शिनि प्रध्यानाभिरतः स्थितो न नियम' स्वभ्यस्तयोगे त्वयम् ॥ २४ ॥ नांगावयवप्रचालनवचोजृंभाद्यभावो मुनि युत्सर्गेण समावलंबकशिलास्तंभो निखातो यथा । पर्यकेन यथासुखं स्वमनसः शय्यादिभिर्वा स्थितो निःसंगोऽस्तसमस्तबाह्यविषयव्यापृत्यशेषेन्द्रियः ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106