Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 68
________________ नवमोऽधिकारः। नोकर्ममृत्सुवर्णाश्ममाणिक्याऽहिस्रगादिकम् । समताकारणं बाह्यभावभावावलोकिनः ॥ १६ ॥ अर्पितेन विवर्तेन वर्तमानेन संयुतम् । द्रव्यं भावो भवेद्भावमात्रं वा विनयाश्रयः ॥ १७ ॥ भाव आगमनोआगमद्विभेदस्तयोर्भवेत् । आगमः समताशास्त्रार्थोपयोगयुतो यतिः ॥१८॥ द्विभेद उपयुक्तस्तत्परिणत इतीतरः। शास्त्रं विनोपयुक्तोऽस्यामुपयुक्त इति स्मृतः ॥ १९ ॥ सं यः स्वार्थनिवृत्त्यात्मनेन्द्रियाणामयोऽयनम् । समयः सामायिकं नाम स एव समताह्वयम् ॥ २०॥ समस्यारागरोषस्य सर्ववस्तुष्वयोऽयनम् । समायः स्यात्स एवोक्तं सामायिकमिति श्रुते ॥२१॥ समतोपेतचित्तो यः स तत्परिणताह्वयः । प्रकृतोऽत्रायमन्यासु क्रियास्वेवं निरूपयेत् ॥ २२ ॥ सर्वव्यासंगनिर्मुक्तः संशुद्धकरणत्रयः। धौतहस्तपदद्वन्द्वः परमानन्दमन्दिरम् ॥ ॥२३ ॥ चैत्यचैत्यालयादीनां स्तवनादौ कृतोद्यमः। भवेदनन्तसंसारसन्तानोच्छित्तये यतिः॥ २४॥ (युग्मम् ) यथा निश्चेतनाश्चिन्तामणिकल्पमहीरुहाः। कृतपुण्यानुसारेण तदीष्टफलप्रदाः ॥२५॥ तथाऽहंदादयश्चास्तरागद्वेषप्रवृत्तयः। भक्तभक्त्यनुसारेण स्वर्गमोक्षफलप्रदाः॥ २६ ॥ (युग्मम् ) गरापहारिणी मुद्रा गरुडस्य यथा तथा । जिनस्याऽप्येनसो हंत्री दुरितारातिपातिनः॥२७॥ सुमनः संगमादंगतीहस्तत्रं ? पवित्रताम् । पिष्टःप्रकृष्टमाधुर्य प्रकृष्टक्षुरसाद्यथा ॥ २८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106