Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 67
________________ ६२ आचारसारे सा षड्विधोदितत्येवं समतास्तववन्दनम् । सप्रतिक्रमणप्रत्याख्यानकायविसर्जनम् ॥ ३ ॥ स्यान्नामस्थापनाद्रव्यभावभेदाच्चतुर्विधा । समता नाम समतैतस्या नाम स्ववाचकम् ॥ ४ ॥ जीवाजीवोभयेष्टार्थजातिद्रव्यगुणक्रिया । नामोत्पत्तिनिमित्तानपेक्षं यन्नाम तन्मतम् ॥ ५ ॥ यत्सेयमित्यभेदेन सदृशेतरवस्तुषु । स्थापनं स्थापनं वाऽर्हत्प्रतिकृत्यक्षतादिषु ॥ ६ ॥ द्रव्यं भविष्यत्पर्यायं गतार्पितविवर्ति च । तदूद्वेधाऽऽगमो नोआगमश्चेत्याद्यस्तयोरयम् ॥ ७ ॥ जीवः स्यादुपयोगो नो विज्ञातसमतागमः । आगमादन्यो नोआगमाख्यः स त्रिविधो यथा ॥ ८ ॥ ज्ञायकांगं भविष्यंस्तद्व्यतिरिक्तमिति त्रिधा । तेष्वाद्यं भाव्यतिक्रान्तवर्त्तमानविकल्पतः ॥ ९ ॥ आधाराऽऽधेयधर्मोपचारेणांगत्रयस्य च । तत्त्वं धनुःशतं भुंक्ते धावतीत्यत्र वा तथा ॥ १० ॥ स्याच्च्युतं च्यावितं त्यक्तमित्यतीतं त्रिभेदगम् । च्युतं त्यागं विनाऽऽयुष्यक्रमक्षयगतात्मकम् ॥ ११ ॥ च्यावितं कदलीघातपतितं त्यागवर्जितम् । त्यक्तं भक्तादिकत्यागैर्घाताऽघातगतात्मकम् ॥ १२ ॥ विषास्त्रघातभीरक्तक्षयसंक्लेशवेदना- । ऽऽहारोच्छ्रासनिरोधाः स्युरायुष्यच्छेदकारिणः ॥ १३ ॥ स्याद्भाव्यर्पितपर्यायो भविष्यन्राजनामभाक् । भविष्यद्राजपर्यायो वोपचारान्नृपात्मजः ॥ १४ ॥ कर्मनो कर्मभेदं स्यात्तृतीयं तत्र कर्म यत् । चरित्रमोहमन्दानुभावद्रव्यैनसस्ततिः ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106