Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 65
________________ आचारसारे पादान्तरालात्पंचाक्षगतिः पंचेन्द्रियात्ययः। स्वोदरकृमिविण्मूत्ररक्तपूयादिनिर्गमः ॥ ६४ ॥ निष्ठीवनं सदंष्ट्रांगिदशनं चोपवेशनम् ।। पाणिपात्रेऽत्र सांगास्थिनखरोमादिदर्शनम् ॥६५॥ प्रहारो ग्रामदाहो ऽशुभोग्रबीभत्सवाक्श्रुतिः। उपसर्गाः पतनं पात्रस्यायोग्यगृहाशनम् ॥६६॥ जानुदेशाधः स्पर्शश्चेत्येवं बहवो मताः। लोकसंयमवैराग्यजुगुप्साभवभीतिजा॥६७॥ षभिः कुलकम्। ज्ञात्वा योग्यमयोग्यं च द्रव्यं क्षेत्रत्रयाश्रयम् । चरत्येव प्रयत्नेन भिक्षाशुद्धिमतो यतिः ॥ ६८ ॥ कुलचिजातिरूपाज्ञातपोज्ञानबलोद्भवैः । मदैविहीना विनये शुद्धिः सद्गुणसन्नतिः ॥ ६९ ॥ कार्याऽहत्सिद्धोपाध्यायसूरिसाध्वादिकेष्वसौ। समीक्ष्य क्षेत्रकालाऽवस्थासभादि यथागमम् ॥ ७० ॥ नाऽत्यासन्नो न दूरस्थो न पार्श्वस्थो न पृष्ठगः । नोच्चस्थो वा गुरुं पृच्छेत्पृच्छेदभिमुखो नतः ॥७१ ॥ स्यिते स्थित्वोपविष्टे सत्युपविश्य गुरौ स्फुटम् । श्रद्धामार्दवभक्त्या ऽऽर्जवादियुक्तः कृतांजुलिः ॥७२॥ वक्तर्यन्यकथास्तस्मिन्विक्षेपोत्पादकं वचः । तत्पावें स्वैरवाग्वृत्तिप्रवृत्ती च त्यजेद्यतिः ॥ ७३ ॥ संस्तरोत्क्षेपनिक्षेपप्रमुखैः परिकर्मभिः। शर्म संपादयेत्सूरेः शमॆषी विनयान्वितः ॥ ७४॥ श्रुत्वोक्तेः स्खलितं नैव हसेत्कस्याऽपि नो वदेत् । अप्रियं हर्षामर्षाभ्यां न कुर्यात्परपीडनम् ॥ ७५॥ इयं विनयशुद्धिर्नुभूषाऽशेषगुणश्रियः। कारणं सुखदं नान्यदिहाऽमुत्र च देहिनाम् ॥ ७६॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106