Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 63
________________ ५८ आचारसारे गजाऽश्वजांगुलीबालवैद्यार्नीचवृत्तिभिः । भिषग्वृत्तिर्मता तादृगन्यैरप्यशनाऽर्जनम् ॥ ३८॥ स्वरान्तरिक्षभौमांगव्यंजनच्छिन्नलक्षणस्वमाष्टांगनिमित्तैर्यनिमित्तमशनार्जनम् ॥ ३९ ॥ दीनाद्यन्नाद्यदानेन पुण्यं ननु भवेदिति। पृष्ठेऽभ्युपगमानार्थ भवेदिच्छाविभाषणम् ॥४०॥ दाता ख्यातस्त्वमित्याद्यैर्यद्गह्यानन्दनन्दनम् । पूर्व पश्चाच्च भुक्तेस्तत्पूर्व पश्चात्स्तवद्वयम् ॥४१॥ क्रोधाद्यन्नार्जनं क्रोधचतुष्कं वश्यकर्म यत् । वश्यकृन्मंत्रतंत्रादिदेशनेनाशनार्जनम् ॥ ४२ ॥ स्वतपः श्रुतजात्यादिवर्णनं स्वगणस्तवः । विद्यागः सिद्धविद्यादिप्रभावादिप्रदर्शनम् ॥ ४३॥ पाठसिद्धादिमंत्राणामङ्गशृंगारकारिणः। चूर्णादेर्देशने स्यातां मंत्रचूर्णोपजीवने ॥४४॥ दोषाः शंकितम्रक्षिते निक्षिप्तं पिहितोज्झिते। व्यपहारो दातृमिश्रापक्वलिप्ता दशैषणाः ॥४५॥ शंकितं शंकितं सेव्यमेतदन्नं न वेति यत् । सस्नेहहस्तपात्रादिदत्तं यन्म्रक्षितं मतम् ॥ ४६ ॥ सचित्रपद्मपत्रादौ क्षिप्त निक्षिप्तसंज्ञितम् । सचित्तेनाब्जपत्रादिना वृतं पिहिताशनम् ॥४७॥ स्यादुज्झितं बहु त्यक्त्वा यच्चताद्यल्पसेवनम् । पानादि दीयमानं वाऽनल्पेन गलनेन तत् ॥४८॥ यत्यर्थ संभ्रमाच्चेलपात्रादेरसमीक्ष्य यत् । समाकर्षणमाम्नातं व्यपहार इति श्रुते ॥ ४९ ॥ नग्नः शौण्डः पिशाचोऽन्धः पतितो मृतकाऽनुगः। तीव्ररोगी व्रणी विंगी नीचोच्चस्थानसंस्थितः ॥५०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106