Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 52
________________ षष्ठोऽधिकारः। ४७ यतीन्प्रहरतोऽन्यस्त्रीहरणादींश्च कुर्वतः। दशनवपूर्वज्ञस्य त्र्याधसंहननस्य तत् ॥ ५८ ॥ युग्मम् । करोति यदि दर्पण दोषान् पूर्वविभाषितान् । सोयमन्यगणानुपस्थापनेन विशुद्धयति ॥ ५९॥ प्रायश्चित्तं तदेवात्र किन्तु स्वगणसूरिणा। आलोच्य प्रेषितः सप्तसूरिपार्श्वमनुक्रमात् ॥ ६०॥ आलोच्य तैस्तैरप्राप्तप्रायश्चित्तोऽन्त्यसूरिणा। तमाद्यं प्रापितस्तेन दत्तं चरति पूर्ववत् ॥ ६१ ॥ युग्मम् । स्वधर्मरहितक्षेत्रे प्रायश्चित्ते पुरोदिते। चारः पारंचिकं जैनधर्मात्यन्तरतेर्मतम् ॥ ६२॥ संघोर्वीशविरोधांतःपुरस्त्रीगमनादिषु । दोषेष्ववंद्यः पाप्येष पातकीति बहिः कृतः॥६३ ॥ चतुर्विधेन संघेन देशान्निष्कासितोऽप्यदः । चरत्येवाऽऽर्यवैराग्यसत्त्वज्ञानबलो व्रती ॥ ६४ ॥ युग्मम् । दर्शनं यत्पुनस्तत्त्वश्रद्धानं तन्महाव्रतैः। सार्द्ध यतेः स्थितस्यत्वा मिथ्यात्वं तदुदीरितम् ॥६५॥ देशं कालं बलं ज्ञात्वा गणी वैद्यवदंगिनाम् । अल्पानल्पेषु दोषेषु कुर्यात्तद्विशोधनम् ॥ ६६ ॥ कृतागसैव कर्त्तव्यं प्रायश्चित्तं त्रिशुद्धितः। ग्लानस्यैव प्रयत्नेन युक्तमौषधसेवनम् ॥ ६७॥ दोषव्युदासनैः शल्यमर्यादा संयमस्थिति। स्वान्तप्रशान्तिसंपत्तिप्रमुखार्थमिदं मतम् ॥ ६८ ॥ विनयः स्याद्विनयनं कषायन्द्रियमर्दनम् । स नीचैर्वृत्तिरथवा विनया यथोचितम् ॥ ६९॥ सदृग्ज्ञानतपश्चारित्रोपचारप्रपंचकः । तत्र दृग्विनयत्यागः शङ्कादीनाममी च ते ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106