Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
૪૮
आचारसारे
शंकाऽऽकांक्षाजुगुप्साऽन्यहग्प्रशंसन संस्तवाः । नाम्ना ज्ञेयास्त्रयोन्त्यौ तु मनोवाग्विषये स्तुती ॥ ७१ ॥ द्रव्यादिशोधनं वस्तुप्रमाणावग्रहादिकम् । बहुमानः श्रुतज्ञेषु श्रुतज्ञाऽऽसादनोज्झनम् ॥ ७२ ॥ वयःशीलश्रुतोनाधिकाद्युपाध्यायकीर्त्तनम् । चानिह्नवेन येनाऽयं ज्ञानावरणकारणम् ॥ ७३ ॥ स्वराक्षरपदग्रन्थार्थाहीनाध्ययनादिकम् । स्याज्ज्ञानविनयः सम्यग्ज्ञानस्वर्मोक्षकारणम् ॥ ७४ ॥ त्रिकम् । आवश्यक क्रियाशक्तिर्नानोत्तरगुणोन्नतिः । तपस्तद्वत्प्रमोदश्च स्यात्तपोविनयो यतः ॥ ७५ ॥ भक्तिचारित्रवस्त्वन्यवृत्ताऽनिन्दनमुद्यमः । परीषहजयादौ च चारित्रविनयो मुनेः ॥ ७६ ॥ उपोपसृत्य यश्चारैः “ उपचारो " यथोचितः । स प्रत्यक्ष परोक्षात्मा तत्राद्यः प्रतिपाद्यते ॥ ७७ ॥ अभ्युत्थानं नतिः सूरावागच्छति सति स्थिते । स्थानं नीचैर्निविष्टेऽपि शयनोच्चासनोज्झनम् ॥ ७८ ॥ गच्छत्यनुगमो वक्तर्यनुकूलं वचो मनः । प्रमोदीत्यादिकं चैवं पाठकादिचतुष्टये ॥ ७९ ॥ युग्मम् । आचार्यादिष्वसत्स्वेवं स्थविरस्य मुनेर्गणे । प्रतिरूपकालयोग्या क्रिया चान्येषु साधुषु ॥ ८० ॥ आर्यादेशयमाऽसंयतादिषूचितसत्क्रिया । कर्त्तव्या चेन्यदः प्रत्यक्षोपचारोपलक्षणम् ॥ ८१ ॥ ज्ञानविज्ञानसत्कीर्तिर्नतिराज्ञाऽनुवर्त्तनम् । परोक्षे गणनाथानां परोक्षप्रश्रयः परः ॥ ८२ ॥ विना येन विहीनस्य भिक्षोः शिक्षाऽमृतश्रियः । संश्रयाय निदानं नो तथा चाभ्युदयश्रियः ॥ ८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106