Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
सप्तमोऽधिकारः ।
५३
वर्ण्यन्ते बहवस्तपोऽतिशयजाः सप्तद्धिपूजादयः प्राप्ताः पूर्वतपोधनैरिति वचोमात्रं तदद्यापि यत् । तत्त्वज्ञस्य ममाऽपि तेषु न हि कोऽपीत्यार्त्तसंगोज्झिता चेतोवृत्तिरदृक्पषिहजयः सम्यक्त्वसंशुद्धितः॥ १६ ॥ जेता चित्तभवस्त्रयस्य जगतां यासामपांगेषुभिस्ताभिर्मत्तनितंबिनीभिरभितः संलोभ्यमानोऽपि यः। तत्फल्गुत्वमवेत्य नैति विकृतिं तं वर्दीधैर्मन्दिरं वन्दे स्च्यार्त्तिजयं जयन्तमखिलानर्थ कृतार्थ यतिम् ॥ १७ ॥ प्रत्यक्षाऽक्रमविश्ववस्तुविषयज्ञानात्मनः स्वात्मनो गर्वः सर्वमतश्रुतज्ञ इति यः प्राप्ते परोक्षे श्रुते । सर्वस्मिन्नपि नो तनोति हृदये लज्जां स किं तामिति प्रज्ञोत्कर्षमदापनोदनपरः प्रज्ञार्तिजित्तत्त्ववित् ॥१८॥ ज्ञानध्यानरता मतिर्मम तपस्तीनं न चोत्पद्यते ज्ञानं पूर्णमयं जडः पशुरिति श्रोतुं वचोऽहं क्षमः । नेत्यज्ञानपरीषहं स सहते प्रत्यक्तवस्तुस्थितिर्यः कार्य भवति स्वहेतुयुगले सत्येव नेत्यन्यथा ॥ १९ ॥ भूषावेषविकारशस्त्रनिचयत्यागात्प्रशस्ताकृतेर्बालस्येव मनोजजातविकृतिश्चितस्य लज्जेति ताम् । हित्वा मातृसमानमेव सकलं कान्ताजनं पश्यतः पूज्यो नाग्न्यपरीषहस्य विजयस्तत्त्वज्ञतापोदयः॥२०॥ वर्णी कर्णहृदां विदारणकरान् कूराशयैः प्रेरितानाक्रोशान् घनगर्जतर्जनखरान् शृण्वन्नशृण्वन्निव । शक्त्याऽत्युत्तमसंपदाऽपि सहितः शान्ताशयश्चिन्तयन् यो बाल्यं खलसंकुलस्य शयनक्लेशक्षमी तं स्तुवे ॥ २१ ॥ ख्यातोऽहं तपसा श्रुतेन च पुरस्कार प्रशंसां नतिं भक्त्या मे न करोति कोऽपि यतिषु ज्येष्ठोऽहमेवेति यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106