Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 56
________________ सप्तमोऽधिकारः। ५१ क्षुत्तीक्ष्णानशनादिजाक्षनिकरं स्वज्ञेयवीक्षाक्षम स्वान्तं भ्रान्ततरं करोति बलवत्प्राणान्प्रयाणोन्मुखान् । याऽन्यादीनजनेऽफलाऽतिसफला त्यागात्तपः पुष्टये तस्या धृत्यमृताशनेन शमनं कुर्वन्व्रती क्षुज्जयः ॥३॥ चंडचंडकरः स्थलस्थितपयः संचारिणः प्राणिनो भ्रष्टप्लुष्टतनूंस्तनोति नितरां यस्मिस्तपे तापने। तस्मिन् स्निग्धविरुद्धभोजनरुजाऽऽतापादिपुष्यत्तृषां त्यक्ते निःस्पृहतामृतेन कृतार्मुष्णाति तृष्णाजयः॥४॥ प्रोत्कंपा हिमभीमशीतपवनस्पर्शप्रभिन्नांगिनो यस्मिन्यान्त्यतिशीतखेदमवशाः प्रालेयकाविङ्गिनः । तस्मिन्नस्मरतः पुरा प्रियतमाश्लेषादिजातं सुखं योगागारनिरस्तशीतविकृतेर्निर्वाससस्तज्जयः ॥५॥ प्राणाघातविभीतितस्तनुरतित्यागाच्च भोगास्पृहः स्नानोद्वर्तनलेपनादिविगमात्प्रस्वेदपांसूदितम् । लोकानिष्टमनिष्टमात्मवपुषः पामादिमूलं मलं गोत्रत्राणमिवादधाति वृजिनं जेतुं मलक्लेशजित् ॥६॥ ग्रीष्मे शुष्यदशेषदेहिनिकरे मार्तडचंडांशुभिः संतप्तात्मतनुस्तृषानशनरुक्क्लेशादिजातोष्णजम्। शोषस्वेदविदाहखेदमवशेनाप्तं पुराऽपि स्मरन् तन्मुक्त्यै निजभावभावनरतिः स्यादुष्णजिष्णुव्रती ॥ ७ ॥ शून्यागारदरीगुहादिशुचिनि स्थाने विविक्ते स्थितस्तीक्ष्णैर्मत्कुणकीटदंशमशकाद्यैश्चंडतुंडैः कृतां। स्वांगाति परदेहजार्त्तिमिव तां यो मन्यमानो मुनिनिःसंगः स सुखी च दंशमशकक्लेशं क्षमी तं नुमः ॥ ८॥ शार्दूलैर्मिलितेच्छभल्लभुजगाऽऽभोगे भयैकास्पदे गन्धान्धद्विरदोत्करे करिरिपुकडैिकनीडे वने । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106