Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
आचारसारे
मनः सदर्थे वाक् पाठे वर्णेऽक्षणी तच्छ्रुतौ श्रुती। प्रसक्ते निष्क्रियेऽक्षेऽन्ये तदैकाग्यमिहाप्यलम् ॥ ९७ ॥ अस्मात्तत्त्वपराभ्यासः प्रशमश्च विरागता। भवेत् प्रभावनैकान्तवादिमानप्रमर्दनम् ॥ ९८॥ शरीरान्तर्बहिःसंगसंगव्युत्सर्जनं मुनेः। व्युत्सर्गः स्यात्समीचीनध्यानसंसिद्धिकारणम् ॥ ९९॥ ध्यानं तपः परं चित्तैकार्थलीनप्रवर्तनम्। कीर्त्यतेन्तर्मुहूर्तावस्थानं स्वर्मोक्षसाधनम् ॥१०॥ विशिष्टमिष्टं घटयत्युदारं दूरस्थितं वस्त्वतिदुर्लभं च । जैनं तपः किंबहुनोदितेन स्वर्गश्रियं चाक्षयमोक्षलक्ष्मीम् १०१ नमोऽस्तु तस्मै मुनिसुव्रताय साक्षात्कृतन्यक्षचराचरो यः। व्रतानि सत्त्वैकहितानि यस्य सन्ति क्रमप्रह्वजगत्रयस्य ॥१०२ ॥ इति श्रीमद्वीरनन्दिसिद्धान्तिचक्रवर्तिप्रणीते श्रीआचारसार. नाम्नि ग्रन्थे तपआचारवर्णनात्मकः षष्ठोधिकारः ॥६॥
अथ सप्तमोऽधिकारः॥७॥
सदृत्तिः सुमतिः पतिस्त्रिजगतां नेता विमुक्तेः सृतेर्यस्यात्यद्भुतचित्तशक्तिहुतभुग्ज्वालाकलापैरलम् । तन्मार्गानुगमार्गबन्धनमहासंघातिनिर्बन्धिनः प्लुष्टो दुष्टपरीषहोगटभटः सोऽयं जिनः पातु नः॥१॥ क्षुत्तुदशीतमलोष्णदेशमशंकर्यारोगशय्यातृणस्पर्शक्लेशवधानलाभमरतिं निर्दर्शनं स्त्रीलमम् । प्रज्ञाऽज्ञानभवौ सनाग्न्यशयनान्सत्कारयाञ्चानिषयोद्भतांश्च परीषहान्विजयते यो वीर्यचर्यो यतिः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106