Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 59
________________ ५४ आचारसारे ग्लानिं मानकृतां न याति स मुनिः सत्कारजातार्तिजिदोषो मे न गुणा भवन्ति न गुणा दोषाः स्युरित्यन्यतः ॥ २२॥ प्राज्यं राज्यमुदस्य शाश्वतपदप्राप्त्यै तपोवृंहणे देहो हेतुरयं हि भुक्त्यनुगता चास्य स्थितिस्तत्कुतः । भिक्षायै भ्रमणं हियः पदमिदं यस्मान्महार्थास्पदं नीचैर्वृत्तिरनिन्दितेति विचरन् याञ्चाजयः स्यान्मुनिः ॥ २३ ॥ सर्वाशाशसहान्धकारपुरुजाऽऽयामां त्रियामां यमी योगैर्योगमयत्यवार्यमहिमाऽऽभोगेर्मुहूर्त्त यथा । क्षेत्रे स्त्रीजन पश्ववद्यरहिते हृद्ये निषद्यास्थितः सन्नत्युग्रनिशाचराप्रतिहतध्यानो निषद्याजयी ॥ २४ ॥ देशं कालं स्वकीयं बलमपि नृपतिः सम्यगालोच्य यद्वच्छव्रातस्य जेता भवति यतिरपि स्वीयकर्मोदयेन । जातस्यास्यार्त्तिजातोद्भटभटकटकस्योरुधैर्यस्तथा यः सोऽयं स्याद्वर्यवीर्याचरणचणनुतो वीरलक्ष्मीनिवासः ॥ २५ ॥ चक्रं विक्रममानमर्दनमुरुज्यां प्राज्यराज्यं च यः कुन्धुर्मन्थविरागतातिशयतस्त्यक्त्वात्मरूपाप्तये । तत्प्राप्तौ तु परं क्षमादिकमरं तद्धर्मचक्रं दधद्वंद्योऽभूद्भवनत्रयस्य तदिदं चित्रं चरित्रं मुनेः ॥ २६ ॥ इति श्रीमद्वीरनन्दिसिद्धान्ति चक्रवर्त्तिप्रणीते श्रीआचारसारनाम्नि शास्त्रे वीर्याचारवर्णनात्मकः सममोऽधिकारः ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106