Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 51
________________ आचारसारे ध्युत्सर्गान्तमुहूर्तादिकालं कायविसर्जनम् । सद्ध्यानं तन्मलोत्सर्गनद्याद्युत्तरणादिषु ॥४५॥ तपः स्यादुपवासैकस्थानादिर्व्यसनादिभिः। व्रतातिचारे सत्येतत्प्रायश्चितं तु षडिधम् ॥ ४६ ॥ दिवसादितपश्छेदश्छेदसंयमपर्यये। सदर्पकृतदोषस्य चिरदीक्षहितैषिणः ॥४७॥ पुनर्दीक्षाग्रहो मूलं सर्वा पूर्वी तपःस्थितिम् । छित्वोन्मार्गस्थपार्श्वस्थप्रभृतिश्रमणेष्विदम् ॥४८॥ सच्चारित्रामृतापात्रं स्युः पार्श्वस्थः कुशीलकः। संसक्तोऽप्यवसन्नश्च मृगचारीति पंच ते ॥ ४९ ॥ वसत्युपधिसंगस्थः पार्श्वस्थः स्यात्कुशीलकः। संघाहितकरस्तीनकषायो व्रतवर्जितः॥५०॥ संसक्तो वैद्यमंत्रावनीशसेवादिजीवनः। ज्ञानचारित्रहीनोऽवसन्नः स्यात्करणालसः॥५१॥ स्वच्छन्दो यो गणं त्यक्तुं चरत्येकाक्यसंवृतः। मृगचारीत्यमी जैनधर्माऽकीर्तिकरा नराः॥५२॥ परिहारोऽनुपस्थापनपारंत्रिकभेदभाव । निजान्यगणभेदं तत्राद्य तत्राद्यमुत्तमम् ॥ ५३ ॥ द्वादशाब्देषु षण्मासषण्मासानशनं मतम् । जघन्यं पंच पंचोपवासं मध्यन्तु मध्यमम् ॥५४॥ द्वत्रिंशदंडदूरालयस्थेन वसतेर्यतीन् । सर्वान् प्रणमताऽपेतप्रतिवन्दनसाधुना ॥ ५५॥ स्वदोषाख्यातये पिच्छं विभ्राणेन पराङ्मुखम् । सूरीतरैः सहोपात्तमौनेनैतद्विधीयते ॥५६॥ प्रमादेनाऽन्यपाखंडिगृहस्थयतिसंश्रितम् । वस्तु स्तेनयतः किंचिच्चेतनाचेतनात्मकम् ॥ ५७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106