Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
षष्ठोऽधिकारः।
४५
सूक्ष्मागःकीर्तनं सूक्ष्मदोषस्याऽपि विशोधकः। इति ख्यात्यादिहेतोः स्यात्सूक्ष्म स्थूलोपगृहनम् ॥ ३२ ॥ दोषे सतीदृशे देयं किं प्रायश्चित्तमित्यलम्। प्रश्नः स्वच्छादनेन स्याच्छन्नं लज्जाभयादिभिः ॥ ३३ ॥ व्रतिव्रातघनध्वाने स्वदोषपरिकीर्तनम् । लज्जाद्यैः पाक्षिकादौ यत्तच्छब्दाकुलितं मतम् ॥३४॥ प्रायश्चित्तमिदं युक्तं न वेत्यल्पतदाशया। बहुसूरिपरिप्रश्नो यावदल्पं स बह्विति ॥ ३५ ॥ स्वसमानज्ञानतपोवालस्याऽऽलोचनं भवेत् । अव्यक्तं हृीभयप्रायश्चित्तभीत्यादिहेतुतः ॥ ३६॥ मादृशो वेत्यसावेव ममागोऽस्मै यदर्पितम् । तन्ममेति स्वदोषोक्तिरस्मै तत्सेवितं मतम् ॥ ३७ ॥ साऽऽमांगसंगतं यद्वन्नौषधं व्याधिबाधकम् । तथाऽनालोचनाशुद्धं नैनोनाशकरं तपः ॥ ३८ ॥ द्याश्रयं संयतानां स्यादार्यिकाणां त्रिगोचरम् । सप्रकाशप्रदेशे तु तच्चारित्रविभूषणम् ॥ ३९ ॥ आलोच्यार्पितप्रायश्चित्तवृत्तिविवर्जितः । सन्मंत्रनिश्चयेऽप्युद्योगोनवत्फलवर्जितः ॥४०॥ मिथ्यामदाऽऽगोऽस्त्वित्याद्यैर्यद्दोषेभ्यो निवर्तनम् । प्रतिक्रमणमल्पापराधस्यैकाकिनो मुनेः॥४१॥ स्यात्तदुभयमालोचनाप्रतिक्रमणद्वयम् । दुःस्वपदुष्टचिन्तादिमहादोषसमाश्रयम् ॥४२॥ परिहर्जुमशक्तस्य दोषं द्रव्यादिसंश्रयम् । तद्रव्यादिपरित्यागो विवेकः कथितोऽथ वा ॥४३॥ . अप्रासुकस्य सेवायां त्यक्तस्य प्रासुकस्य च। प्रमादेन पुनः स्मृत्वा स तदा तद्विसर्जनम् ॥ ४४ ॥ युग्मम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106