Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 21
________________ आचारसारे जीवाजीवौ तयोः पुण्यं पापमास्रवसंवरौ। निर्जराबन्धमोक्षाश्चेत्यर्था नवविधाश्च ते ॥ २६ ॥ जीवाजीवौ पुरो प्रोक्तौ सम्यक्त्ववृत्तज्ञानवान् । जीवः पुण्यं तु पापं स्यान्मिथ्यात्वादिकलंकवान् ॥ २७॥ स्यादजीवात्मकं पुण्यं पापं चाणुकदम्बकम् । शुभानामशुभानां च कर्मणा सुखदुःखदम् ॥ २८ ॥ मिथ्याविरतिकषाययोगाः स्युरशुभास्त्रवाः । दयादमयमाद्यास्तु जीवात्मानः शुभास्त्रवाः ॥ २९ ॥ उदयोदीरणाकर्मद्रव्यास्रवो यतः। स्यानूनद्रव्यभावैनों भावद्रव्यास्त्रवाः कमात् ॥ ३०॥ भावद्रव्यास्त्रवानल्पविकल्पेषु यदाऽऽत्मनि। यस्य यस्य निरोधः स्यात्तत्तत्संवरणं तदा ॥ ३१ ॥ भावद्रव्यास्त्रवद्वन्द्वरोधात्संवरणं मतम् । द्रव्यभावात्रवद्वन्द्वस्यैतद्यत्तेन जन्यते ॥ ३२ ॥ गलनं निर्जरांशस्य स्याच्चिरंतनकर्मणः । सविपाकाऽविपाका च प्राप्तकाला विपाकजा ॥ ३३ ॥ परिणामविशेषोत्थाऽप्राप्तकालाऽविपाकजा। कालेनोपायजालैर्वा फलपाको वनस्पतेः ॥ ३४॥ युग्मम् । रागादीनां विभावानां विश्लेषो भावनिर्जरा। आत्मनो गलनं द्रव्यकर्मणां द्रव्यानर्जरा ॥३५॥ सम्यक्त्वदेशचारित्रसंयमाऽयोगवृत्तयः। कारणं निर्जरायाः स्युः संवरस्यापि कर्मणः ॥ ३६॥ द्रव्यास्रवजमिथ्यात्वयोगाविरमणादिभिः । नूतनैरात्मनः श्लेषो भावबन्धस्तदात्मता ॥ ३७॥ भावात्रवातितापात्मलोहस्वात्मैकदेहगम् । आदत्ते सर्वतोऽनंतानंतकर्माणुजीवनम् ॥ ३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106