Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 38
________________ पञ्चमोऽधिकारः । कंचनार्थ प्रतीत्यान्यस्वरूपान्तरभाषणम् । प्रतीत्यसत्यं वीरोऽयं ज्ञानीत्यादिवचो यथा ॥ ३७ ॥ सिद्धान्तः समयस्तेन प्रसिद्धान्तप्ररूपणम् । वचः समयसत्यं स्यात्प्रमाणनयसंश्रयम् ॥३८॥ संभावनति सोक्ता वाग्वस्तुसद्भावभावना । शक्रः शक्नोति तर्जन्योद्धर्नु मेरुमपीति वा ॥ ३९ ॥ उपमोपमयाऽगुण्यगुण्यादेः परिवर्णना। आयुः पल्योपमं ग्रीष्मो वह्निरित्यादि वाग्यथा ॥४०॥ क्रोधभयलोभहास्यत्यांगाः सत्यस्य भावनाः । अनुवीची वचश्चेदमागमोचितभाषणम् ॥४१॥ परैरदत्तस्याऽऽदाने मनः स्तेयं यदेनसाम् । हेतुरत्राऽपि चौरस्य बधबन्धादिदुःखदम् ॥ ४२ ॥ स्तेयवर्जनमस्तेयं हेतुः स्वर्गापवर्गयोः । जनता येन विश्वासप्रीतिख्यातिसुखास्पदं ॥४३॥ याञ्चाऽनुज्ञापना पत्युरात्तानात्मीयभावनाः। योग्याऽन्याऽग्राह्यस्यादानमविवाद: सधर्मिभिः॥४४॥ इत्यस्तेयव्रते पंच भावनाः कन्दरादिषु । स्वभावशून्येष्वावासो मुक्तामोचितसद्मसु ॥४५॥ परोपरोधाकरणं भैक्ष्यशुद्धिः सधर्मिमिः। सहाविवाद इत्येवमथ वा पंच भावनाः॥४६॥ त्रिकम् । वेदतीव्रोदयात्कर्म मैथुनं मिथुनस्य यत् । तदब्रह्मापदामेकं पदं सद्गुणलोपनम् ॥४७॥ येन बद्धा महादेहा रदिनो मदिनोऽप्यलम् । करेणुवशगाः क्लेशमाभुवन्त्यवशा नरैः॥४८॥ यञ्चैवं जनतामान्यबालनां गुणशालिनाम् । निदानं मानहान्यादिक्लेशानामिह देहिनाम् ॥४९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106