Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 45
________________ ४० आचारसारे गौर्यथाऽत्ति तृणत्रातं क्षिप्तं भुंजीत यत्नतः । तथाऽऽन्नाद्यमनास्वाद्य गोचारज्ञो यथोचितम् ॥ १२६ ॥ भृंगः पुष्पासवं यद्वत् गृह्णात्येक गृहेऽशनम् । गृहिबाधां विना तद्वद्भुजीत भ्रमराशनः ॥ १२७ ॥ यथालब्धेन भक्तेन कुर्यादुदरपूरणम् । यद्वन्मृदादिना लोकैः क्रियते श्वभ्रपूरणम् ॥ १२८ ॥ तोषरोपव्यपेतस्य ज्ञानध्यानप्रसिद्धये । इत्येषा यत्नतो भुक्तिरेषणासमितिर्मता ॥ १२९ ॥ विहायाssदान निक्षेपौ सहसाऽनवलोक्य च । दुःप्रमार्जनमप्रत्यवेक्षणं चार्द्रमानसः ॥ १३० ॥ विधायोपधित देशवीक्षणं प्रतिलेखनैः । लब्धस्वेदरजः सूक्ष्मलतातिमृदुभिः पुनः ॥ १३१ ॥ तौ प्रमृज्योपधेर्यत्ना निक्षेपाऽऽदानयोः कृतिः । यतेरादाननिक्षेपसमितिः परिकीर्त्तिता ॥ १३२ ॥ त्रिकम् । कृष्टप्लुष्टादिदेशेंऽगिछिद्रहीने घने च यः । व्युत्सर्गोऽङ्गमलादेः स्याद्वयुत्सर्गसमितिर्यतेः ॥ १३३ ॥ वीक्षितेऽस्मिन्दिने हस्तबाह्यस्पर्शपरीक्षिते । रात्रौ सत्यंगिनो नो वेत्यंगिहीने तमुत्सृजते ॥ १३४ ॥ सीग्याढ्यश्चेव्दितीयेऽत्र तृतीये वांगिसंगते । विवशो विमृजेदल्पप्रायश्चित्तो यतिस्ततः ॥ १३५ ॥ यद्वद्वज्रतनुत्राणः शराऽऽसाराऽपराजितः । यतिः समितिगात्रत्रस्तद्वत्पापेषु दुर्जयः ॥ १३६ ॥ दोषेभ्यो गोपनं रक्षावतानां गुप्तिरिष्यते । सा मानसवचःकायदंडत्रितयदंडनी ॥ १३७ ॥ मनःपंचेन्द्रियेभेन्द्रस्वैरचारनिवारिणी । स्वगोचरे मनोगुप्तिर्ज्ञानध्यानरता मतिः ॥ १३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106