Book Title: Aachar Sara Author(s): Indralal Shastri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 36
________________ पञ्चमोऽधिकारः । संरंभसमारंभारंभैः कायवाङ्मनोयोगैः । कृतकारितानुमतिभिः क्रोधाद्यैश्च कारणैः ॥ ११ ॥ पूर्वपूर्वर्युतैः सर्वैः प्रत्येकं सोत्तरोत्तरैः । स्यादुपर्युपर्यन्योन्याभ्यासेऽष्टोत्तरं शतम् ॥ १२ ॥ युग्मम् । संरंभो हिंसनोक्तत्वं हिंसोपकरणार्जनम् । समारंभोंऽगिवातादिः स्यादारंभो दयोज्झितः ॥ १३ ॥ कायवाङ्मनसां कर्मयोगः स्वेन कृतं कृतम् । स्वप्रयुक्तान्यनिष्पन्नं हिंसनं कारितं मतम् ॥ १४ ॥ अनुमतमनुज्ञातं कषायः कषतीत्यसौ । क्रोधो मानश्च माया स्याल्लोभः संयमदर्शने ॥ १५ ॥ परोपघातकृच्चेतो युक्तायुक्तेक्षणक्षयम् । क्रोधोंग कंपदाहाक्षिरागवैवर्ण्यलक्षणः ॥ १६ ॥ परुषेय मनो मानो निर्दयः परमर्दनः । स्वोन्नतानत्यहंकारः परासहनलक्षणः ॥ १७ ॥ नानाप्रतारणोपायैर्वैचनाऽऽकुलिता मतिः । मायाविनयविश्वासाऽऽभासचेतोहराकृतिः ॥ १८ ॥ परिग्रहग्रहातीवलालसं मानसं स्मृतः । लोभो लाभातिमोदात्तरक्षणातपलक्षितः ॥ १९ ॥ दयामृतरसास्वादं मानसं स्यादहिंसनम् । जनतात्यन्तविश्रंभमैत्रीस्वमोक्षकारणम् ॥ २० ॥ वाङ्मनोगुप्तीर्यादाननिक्षेपसमितीर्विदुः । युक्ताः शुद्धेक्षितान्नादिभुक्त्याऽहिंसनभावनाः ॥ २१ ॥ वचः सत्यमसत्यं वा स्मृतं जीवाहितेहितम् । जिह्वाच्छेदादिसर्वस्वहारैनोहेतुरात्मनः ॥ २२ ॥ कृतं सत्यमसत्यं वा वचः प्राणिहितेहितम् । येन सन्मानविश्वासयशांसि लभते नरः ॥ २३ ॥ Jain Education International For Private & Personal Use Only ३१ www.jainelibrary.orgPage Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106