________________
पञ्चमोऽधिकारः ।
संरंभसमारंभारंभैः कायवाङ्मनोयोगैः । कृतकारितानुमतिभिः क्रोधाद्यैश्च कारणैः ॥ ११ ॥ पूर्वपूर्वर्युतैः सर्वैः प्रत्येकं सोत्तरोत्तरैः । स्यादुपर्युपर्यन्योन्याभ्यासेऽष्टोत्तरं शतम् ॥ १२ ॥ युग्मम् । संरंभो हिंसनोक्तत्वं हिंसोपकरणार्जनम् । समारंभोंऽगिवातादिः स्यादारंभो दयोज्झितः ॥ १३ ॥ कायवाङ्मनसां कर्मयोगः स्वेन कृतं कृतम् । स्वप्रयुक्तान्यनिष्पन्नं हिंसनं कारितं मतम् ॥ १४ ॥ अनुमतमनुज्ञातं कषायः कषतीत्यसौ । क्रोधो मानश्च माया स्याल्लोभः संयमदर्शने ॥ १५ ॥ परोपघातकृच्चेतो युक्तायुक्तेक्षणक्षयम् । क्रोधोंग कंपदाहाक्षिरागवैवर्ण्यलक्षणः ॥ १६ ॥ परुषेय मनो मानो निर्दयः परमर्दनः । स्वोन्नतानत्यहंकारः परासहनलक्षणः ॥ १७ ॥ नानाप्रतारणोपायैर्वैचनाऽऽकुलिता मतिः । मायाविनयविश्वासाऽऽभासचेतोहराकृतिः ॥ १८ ॥ परिग्रहग्रहातीवलालसं मानसं स्मृतः । लोभो लाभातिमोदात्तरक्षणातपलक्षितः ॥ १९ ॥ दयामृतरसास्वादं मानसं स्यादहिंसनम् । जनतात्यन्तविश्रंभमैत्रीस्वमोक्षकारणम् ॥ २० ॥ वाङ्मनोगुप्तीर्यादाननिक्षेपसमितीर्विदुः ।
युक्ताः शुद्धेक्षितान्नादिभुक्त्याऽहिंसनभावनाः ॥ २१ ॥ वचः सत्यमसत्यं वा स्मृतं जीवाहितेहितम् । जिह्वाच्छेदादिसर्वस्वहारैनोहेतुरात्मनः ॥ २२ ॥
कृतं सत्यमसत्यं वा वचः प्राणिहितेहितम् । येन सन्मानविश्वासयशांसि लभते नरः ॥ २३ ॥
Jain Education International
For Private & Personal Use Only
३१
www.jainelibrary.org