________________
आचारसारे
तनामस्थापनारूपभावसंवृतिदेशगम् । संयोजनाजनपदप्रतीत्यसमयाश्रितम् ॥ २४॥ संभावनोपमात्रं चेत्यादि सत्यमनेकधा । सोदाहरणमत्रैषां लक्षणं वक्ष्यतेऽधुना ॥ २५ ॥ व्यवहारप्रसिद्धयर्थमर्थाभावोऽपि लौकिकैः । कृतं नाम मतं नामसत्यं चन्द्रादिवन्नृषु ।। २६ ॥ धर्मोऽन्यवस्तुनः स्थाप्यतेऽन्यस्मिन्ननुरूपिणि । अन्यास्मिन्वा यया मत्या स्थापना सा तया वचः ॥२७॥ सस्त्यं स्यात्स्थापनासत्यं प्रतिबिंबाक्षतादिषु । चन्द्रप्रभजिनेन्द्रोऽयमित्यादि वचनं यथा ॥ २८॥ रूप्यते दृश्यते प्रायो यत्तद्रूपं तदर्पणम् । रूपसत्यं वचः श्वेता वलाकेत्यादिकं यथा ॥ २९ ॥ छद्मस्थज्ञानिनो वस्तुयाथाऽत्म्यादर्शनेऽप्यलम् । दृष्टदोषापहारेण गुणपोषणकृन्मनः॥ ३०॥ भावस्तेन वचः सत्यं भावसत्यमिदं पयः। प्रासुकं नेदमित्यादि वचो वा वृतिगोचरम् ॥ ३१ ॥ युग्मम् । या सा सर्वानुमत्या वाक् ख्याता संवृतिसत्यवाक्। कारणान्तरजस्वेऽपि पंकजमिति वाग्यथा ॥ ३२॥ सर्वदेशैकवाग्देशसत्यमोदनपाकवाक। यथा वृत्त्या वृतो ग्राम इति ग्रामादिवर्णनम् ॥ ३३ ॥ सेनौषधादिविन्यासविभागक्रमवर्णना। वाणी संयोजना चक्रव्यूहैलाद्यादिवाग्यथा ॥ ३४॥ नानाजनपदेष्वार्यानार्यभेदेषु यद्वचः। धर्मार्थकाममोक्षादिस्वरूपोपायदेशकम् ॥ ३५॥ प्रत्येक नियतं सत्यं स्यात्तज्जनपदाश्रयम् । धर्मोदयात्मका राजा राणेत्यादिवचो यथा ॥ ३६॥ युग्मम् ।
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org