________________
आचारसारे
अथ पंचमोऽधिकारः।
श्रीसंभवं भजत संचितपुण्यराशे
न्यून भीकरतरस्य भवांबुराशेः। लीलासमुत्तरणकारणयानपात्रं
प्रोक्तं गुणोत्करनिरास्रवणं चरित्रम् ॥१॥ मनोवचनकायानां पापरूपक्रियात्ययात् । पंचप्रकारं चारित्रं स्वस्वरूपमुपैत्यलम् ॥२॥ तत्सामायिकं छेदोपस्थापनं तद्वयात्मिका। परिहारर्द्धिः स्यात्सूक्ष्मसांपरायश्च संयमः॥३॥ यथाख्यातमितीदानीमेषां रूपं निरूप्यते । संसारगरलोदारलतोन्मूलनकारिणाम् ॥४॥ युग्मम् । समभेदेन त्यागेनाऽयोऽयनं मतेः। समयः स एव चारित्रं सामायिकमुत्तमम् ॥५॥ व्रतसमितिगुप्तिगैः पंचपंचत्रिभिर्मतेः । छेदैर्भदैरुपात्यर्थं स्थापनं स्वस्थितिक्रिया ॥६॥ छेदोपस्थापनं प्रोक्तं सर्वसावद्यवर्जने। व्रतं हिंसाऽनृतस्तयाब्रह्मसंगेष्वसंगमः ॥७॥ युग्मम् । हिंसाया हिंस्यतां हिंस्रः प्राप्नोति बहुजन्मसु । प्राणिहिंसात्महिंसैव सातस्त्याज्या हितैषिणा ॥८॥ कषायपरिणामः स्यात्प्राणिप्राणावियोजकः । हिंसाहिंसकपापानुबंधबन्धादिकारणम् ॥९॥ उक्तं च राद्धान्ते--
स्वयं ह्यहिंसा स्वयमेव हिंसनं न तत्पराधीनमिह द्वयं भवत् । प्रमादहीनोऽत्र भवत्यहिंसकः प्रमादयुक्तस्तु सदैव हिंसकः१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org