SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ चतुर्थाधिकारः । प्रज्ञोन्मेषः प्रशस्तान्तरंगता कर्मनिर्जरा। संख्यातीतगुणश्रेण्या चेत्यादि स्यादितो यतेः ॥ ९३ ॥ वन्दे श्रीजिनमंजुलास्यकमलामोदं श्रुतं विश्रुतं चार्वी चारुचरित्रपात्रमुनिवृन्दन्दिन्दिरानन्दिनम् । यत्पुष्णाति भवेभवेऽप्यमलिनं ज्ञानं समासवितम् कैवल्यं च समस्तवस्तुविषयं तद्विस्मृतं यद्यपि ॥ ९४ ॥ गंभीरं मधुरं मनोहरतर दोषव्यपेतं हितं कंठौष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतम् । स्पष्टं तत्तदभीष्टवस्तुकथकं निःशेषभाषात्मकं दूरासनसमं समं निरुपमं जैनं वचः पातु वः॥९५॥ येनाऽज्ञानतमस्ततिर्विघटिता ये हिते चाहिते हानादानमुपेक्षणं च समभूत्तस्मिन्पुनः प्राणिनाम् । येनेयं हगुपैति तां परमतां भूतंच येनानिशं तज्ज्ञानं मम मानसांबुजमुदे स्तात्सूर्यवर्योदयम् ॥ ९६ ॥ ज्ञानं यदीयं विगतोपमानं सर्व यदन्तः परमाणुखर्वम् । पायात्स सर्वावृतिजादपाया नाथस्त्रिलोक्या वरमाल्लनाथः ॥९७ ॥ इति श्रीमद्वीरनंदिसिद्धांतचक्रवर्तिविरचिते श्रीआचारसारनाम् शास्ने ज्ञानाचारवर्णनात्मक स्तुर्योऽधिकारः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy