Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
पञ्चमोऽधिकारः।
३७
आज्ञापनं प्रभुत्वेनाऽऽदेशो यः स्वोक्तकारिणा। तत्किंचिदाशु कर्त्तव्यं यन्मया दिश्यते तव ॥ ८६ ॥ याञ्चा मयाऽर्थितं किंचिद्यत्तद्देयमिति त्वया। कथ्यतां यन्मया पृष्टं तदित्याप्रच्छनावचः॥ ८७ ॥ मत्पृष्टं यत्तदादेश्यमिति प्रज्ञापना गुरौ। प्रत्याख्यानमहं किंचित्त्यजामीति निवृत्तिवाक् ॥ ८८॥ संशीत्यैतत्किमित्यादि वचः संशयवाड्मता। तवेष्टं पुष्टं कुर्वेहमित्याद्येच्छानुलोमवाक्॥८९॥ बालादिसंझ्यसंध्यंगिवागनक्षरवागिमाः। न सत्यं स्पष्टताऽभावान्नासत्यं वाच्यसंभवात् ॥ ९० ॥ मितसत्यहितस्योक्तिर्मनः सन्देहभेदिनः । वचसोऽनुभयस्यापि भाषासमितिरिष्यते ॥९१॥ अपवित्रमिदं गात्रं विण्मूत्रादिमलाविलम् । क्षयि न्यक्षोग्ररोगादिपीड़ानीडं जडात्मकम् ॥ ९२ ॥ साहचर्यमनेनाऽऽर्यः कथं कुर्यादुरात्मनः। अन्यः स्वान्यपरिज्ञानापेतचेतोहतात्मनः ॥ ९३ ॥ मिताशनादिदानेन नेयः कायस्तथाप्यऽयम् । यथा रथोऽक्षसंम्रक्षणेन स्तंभैः कुटुंबिनाम् ॥९४ ॥ अप्राप्तावसरेणैषा रक्षणीयो मुमुक्षुणा । कायो वहति नो लोकः किं मून दग्धुमिन्धनम् ॥ ९५॥ एतद्रत्नत्रयीपात्रं नांगत्यंगं विनाऽशनम् । पुष्यात्तत्तेन सिद्ध्यर्थ स्वार्थभ्रंशो हि मूर्खता ॥ ९६ ॥ मत्वति द्रव्यदेशात्मदेहप्रकृतिनिश्चितः। कालं गवेषणस्यैषणस्य ज्ञात्वाऽर्कचारतः ॥९७ ॥ पूर्णोदरचरत्तोकैरगारबलिकर्मणा। छायया मुशलध्यानधूमशान्त्यादिकैरपि ॥ ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106