________________
आचारसारे
जीवाजीवौ तयोः पुण्यं पापमास्रवसंवरौ। निर्जराबन्धमोक्षाश्चेत्यर्था नवविधाश्च ते ॥ २६ ॥ जीवाजीवौ पुरो प्रोक्तौ सम्यक्त्ववृत्तज्ञानवान् । जीवः पुण्यं तु पापं स्यान्मिथ्यात्वादिकलंकवान् ॥ २७॥ स्यादजीवात्मकं पुण्यं पापं चाणुकदम्बकम् । शुभानामशुभानां च कर्मणा सुखदुःखदम् ॥ २८ ॥ मिथ्याविरतिकषाययोगाः स्युरशुभास्त्रवाः । दयादमयमाद्यास्तु जीवात्मानः शुभास्त्रवाः ॥ २९ ॥ उदयोदीरणाकर्मद्रव्यास्रवो यतः। स्यानूनद्रव्यभावैनों भावद्रव्यास्त्रवाः कमात् ॥ ३०॥ भावद्रव्यास्त्रवानल्पविकल्पेषु यदाऽऽत्मनि। यस्य यस्य निरोधः स्यात्तत्तत्संवरणं तदा ॥ ३१ ॥ भावद्रव्यास्त्रवद्वन्द्वरोधात्संवरणं मतम् । द्रव्यभावात्रवद्वन्द्वस्यैतद्यत्तेन जन्यते ॥ ३२ ॥ गलनं निर्जरांशस्य स्याच्चिरंतनकर्मणः । सविपाकाऽविपाका च प्राप्तकाला विपाकजा ॥ ३३ ॥ परिणामविशेषोत्थाऽप्राप्तकालाऽविपाकजा। कालेनोपायजालैर्वा फलपाको वनस्पतेः ॥ ३४॥ युग्मम् । रागादीनां विभावानां विश्लेषो भावनिर्जरा। आत्मनो गलनं द्रव्यकर्मणां द्रव्यानर्जरा ॥३५॥ सम्यक्त्वदेशचारित्रसंयमाऽयोगवृत्तयः। कारणं निर्जरायाः स्युः संवरस्यापि कर्मणः ॥ ३६॥ द्रव्यास्रवजमिथ्यात्वयोगाविरमणादिभिः । नूतनैरात्मनः श्लेषो भावबन्धस्तदात्मता ॥ ३७॥ भावात्रवातितापात्मलोहस्वात्मैकदेहगम् । आदत्ते सर्वतोऽनंतानंतकर्माणुजीवनम् ॥ ३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org