________________
तृतीयाधिकारः ।
आत्मनस्तेन संश्लेषो द्रव्यबन्धश्चतुर्विधः। सः स्यात्प्रकृतिप्रदेशानुभागस्थितिभेदतः ॥३९॥ प्रकृतिप्रदेशयोः स्याद्योगात् स्थित्यनुभागयोः । बंधः कषायतो योगे चाकषाये यतो न तौ॥४०॥ भावद्रव्यात्मकाशेषकर्मनोकर्मणां क्षयात् । भावद्रव्यात्मको मोक्षश्चारुचारित्रसम्पदा॥४१॥ अनंतज्ञानदृग्वीर्यसौख्यात्मस्वात्मलंभनम्। सिद्धिर्नाभावचिन्मात्रनिःशेषात्मगुणक्षया ॥ ४२ ॥ सप्त तत्त्वानि चैतेऽर्थाः पुण्यपापद्वयं विना । तज्जीवाजीवद्रव्यान्तर्भूतं यत्नेगमान्नयात् ॥४३॥ लोकान्यदेवपाखंडिवेदाद्यासादितादलम् । मूढादपोढं सम्यक्त्वं बाढं दृढमिदं भवेत् ॥४४॥ गेहभक्ताभिभूस्वर्णरत्नास्त्राद्यपकारकम् । अनस्य वस्तु यत्तत्र वंद्यधीर्लोकमूढता ॥ ४५ ॥ ब्रह्मोमापतिगोबिन्दशाक्येन्दुतपनादिषु। मोहंकादंबरीमत्तेष्वाप्तधीर्देवमूढता ॥ ४६॥ पाखंडिमूढता दंडपात्रामत्रादिसंगिषु । सन्मतिः स्वागमाभासभ्रान्तस्वान्तान्यलिंगिषु ॥४७॥ पापोपदेशवेदान्यपुराणादिषु सन्मातः। स्याद्वेदमूढता जंतोः संसृतिभ्रान्तिकारणम् ॥४८॥ गुणाः प्रशमनिर्वगसंवेगास्तिकतादयः । स्वदोषगर्दा निन्दाद्याः सम्यक्त्वमणिरश्मयः ॥४९॥ निःशंकत्त्वमकांक्षत्त्वं नैर्जुगुप्स्यममूढता । उपगृहः स्थितीकारो वात्सल्यं च प्रभावना ॥५०॥
१ कापिशायनम् २ जुगुप्सारहितत्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org