SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ तृतीयाधिकारः । अनादिकर्मसंतानसंश्लेषात् क्लेशभाजनम् । संसारी स्यात्रसस्थावराद्यैर्भेदरेनेकधा ॥ १२ ॥ अणुश्च पुद्गलोsभेद्यावयवः प्रचयशक्तितः । कायश्च स्कन्धभेदोत्थश्चतुरस्रस्त्वतीन्द्रियः ॥ १३ ॥ बिभ्रदेकं रसं गन्धं वर्ण शीतचतुष्टये । स्पर्शे चाबाधकौ स्पर्शावेकदा सर्वदेवशः ॥ १४ ॥ द्व्यणुकादिमहास्कंधपर्यन्ता नंतपर्ययाः । परमाणोर्विभावाः स्युर्भेदसंघातसंभवाः ॥ १५ ॥ स्निग्धरूक्षत्वतो बंधो जघन्यगुणवर्जिते । गुणे समेऽसमे वाण्वोः सर्वत्र स्निग्धरूक्षयोः ॥ १६ ॥ इयविभागप्रतिच्छेदविहीनेन तु बंधनम् । स्निग्धाणुनास्य स्निग्धाणोः स्वजातै रूक्षयोस्तथा ॥ १७ ॥ स्कन्धदेशप्रदेशाणुभेदो वाऽखिलपुद्गलः । स्कन्धो ज्येष्ठमहास्कन्धः स्यादन्यश्व धरादिकः ॥ १८ ॥ अतो हीनाणुतो यावदर्द्ध देशस्ततः क्रमात् । हीनाको यावत्प्रदेशोऽणुः पुरोदितः ॥ १९ ॥ जीवपुद्गलजालस्य व्रजतः स्वेन हेतुना । धर्मो याननिमित्तं स्याज्जलं वा जलचारिणाम् ॥ २० ॥ स्वहेतुस्थितिमज्जीवपुद्गलस्थितिकारणम् । अधर्मोऽध्वनि खिन्नस्य ग्रीष्मे छायेव शीतला ॥ २१ ॥ धर्माधर्मो जगद्व्याप्यारूपिणौ सर्वदा स्थितौ । कालाणवो जगन्मात्राश्चैवं तु मणिराशिवत् ॥ २२ ॥ ते प्रत्येकं विवर्त्ताप्तिहेतवः सर्ववस्तुनः । गौणकालस्तु पर्यायस्थितिः स्यात्समयादिका ॥ २३ ॥ व्योमामूर्त्त स्थितं नित्यं चतुरस्रं समं घनम् । भावावगाहहेतुञ्चानंतानं प्रदेशकम् ॥ २४ ॥ अस्तिकाया इमे कालं विना संतः प्रदेशिनः । कायवद्येन कालो प्रदेशप्रचयशक्तिमान् ॥ २५ ॥ Jain Education International For Private & Personal Use Only १.५ www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy