SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आचारसारे ॥ अथ तृतीयाधिकारः॥३॥ श्रियः प्रियः संगतविश्वरूपः सुदर्शनश्छिन्नपरावलेपः। दद्यादनन्तः प्रणतामरेन्द्रो रमां ममाद्य परमां जिनेन्द्रः॥१॥ दर्शनज्ञानचारित्रतपोवीर्यविशेषतः पंचभेदांचिताचारे तावदाद्यो निगद्यते ॥२॥ रुचिराप्तागमार्थानां दर्शनं मूढवर्जितम् । प्रशमादियुगष्टांगं निसर्गाधिगमोद्भवम् ॥३॥ व्यपेताऽशेषदोषो यः शरीरी तत्त्वदेशकः। समस्तवस्तुतत्त्वज्ञः सः स्यादाप्तः सतां पतिः ॥४॥ आप्तोक्तिजार्थविज्ञानमागममस्तद्वचोऽथ वा। पूर्वापराविरुद्धार्थ प्रत्यक्षाद्यैरबाधितम् ॥ ५॥ स्याज्जीवः पुद्गलो धर्मोऽधर्मः कालो नमोऽपि च । मानेनार्थ्यत इत्यर्थस्तत्त्वं चार्थः स्वरूपतः ॥६॥ स्थित्युत्पत्तिव्ययात्मा द्रवति द्रोष्यत्यदुद्रवत् । स्वपर्यायानिति द्रव्यमर्थस्तान्तान्विवक्षितान् ॥ ७॥ गुणपर्ययवद्रव्यं स्याईव्यान्वयिनो गुणाः । निर्गुणाश्चेतनाद्यास्ते तद्विशेषास्तु पर्ययाः॥८॥ जीवत्यजीवीज्ज्जीविष्यतीति जीवश्चिदात्मना। ज्ञाता द्रष्टा जगन्मात्रदेशोऽमूर्तश्च निवृतः ॥९॥ कर्ता स्वकर्मणो भोक्ता तत्फलस्योगः क्षयात् । तस्य स्वगात्रमात्रश्च स्याद्विसर्पणसंहृतेः ॥१०॥ मुक्तसंसारिभेदोऽयं मुक्तः कृत्स्नैनसोत्ययात् । हेमोपलो मलोन्मुक्त्या हेम स्यादमलं यथा ॥११॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy