________________
द्वितीयोऽधिकारः ।
नमन्ति सूर्युपाध्यायसाधूनार्या यथाक्रमम् । पंचषट्सप्तहस्तान्तरालस्थाः पशुशय्यया ॥८५॥ कर्मभूद्रव्यनारीणां नायं संहननत्रयम् । वस्त्रादानाच्चरित्रं च तासां मुक्तिकथा वृथा ॥ ८६ ।। यदि त्रिरत्नमात्रेण सा पुंसां नग्नता वृथा। तिरश्चामपि दुर्वारा निर्वाणाप्तिरलिंगिता ॥ ८७॥ मुक्तिश्चेदस्ति किं नासां प्रतिमाः स्तवनान्यपि । क्रियन्ते पूज्याश्चत्तासां मुक्तेदत्तो जलांजुलिः ॥८८॥ देशव्रतान्वितैस्तासामारोप्यन्ते बुधैस्ततः। महाव्रतानि सज्जातिज्ञप्त्यर्थमुपचारतः ॥ ८९ ॥ ऋतौ स्नात्वा तु तुर्येह्नि शुद्धयंत्यरसभुक्तयः । कृत्वा त्रिरात्रमेकान्तरं वा सज्जपसंयुताः ॥ ९० ॥ गानाक्रन्दनसन्मार्जनायवद्यकियोज्झिताः। जातिकीर्त्यञ्चिताचाराश्चार्वीक्षान्त्यार्जवान्विताः ॥ ९१ ॥ अविकारवस्त्रवेषाः स्वकीयकायेपि निःस्पृहा नित्यम् पठनपरिवर्तनाऽऽख्यानादिश्रुतभावनानिरताः ॥ ९२ ।। चरंति ये चारुचरित्रसंपदः
पदं समाचारमिमं यमीशिनः । समाश्रयंतेऽभ्युदयप्रमोदिनः
परां श्रियं ते कृतिलोकनंदिनः ॥९३ ॥ श्रीमान जिनः संभृतधर्मचक्रः
श्रुतैर्युतः सारगुणैरवक्रः। मनोरथाप्तयै हतचकिचको
भूयादरः पालितधर्मचक्रः॥९४॥ इति श्रीवीरनंदिसिद्धांतिचक्रवर्तिप्रणीते श्रीआचारसारनाम्नि
ग्रंथे द्वितीयोऽधिकारः॥२॥ १ "प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः वैज्ञानिकः कृतमुखः कृती कुशल इत्यमरत्वानिपुणजनसंतोषकारिण इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org