SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आचारसारे मुनिनैकेन नो वाच्यमेकार्या यदि पृच्छति। गणमुख्यां पुरस्कृत्य पृष्टं ब्रूयात्तदीप्सितम् ॥७२॥ मालालापं कथाश्चाजनैः सार्द्ध यमी त्यजेत् ।। तदाश्रयेऽशनं स्थानं व्याख्यानं शयनादिकम् ॥७३॥ मुनिनैकाकिनैकान्ते न स्थातव्यं कदाचन । योषिज्जनागमे काले सदाचारयशोऽर्थिना ॥७४॥ नामाऽप्यानन्दनिष्यन्दि “स्त्रीति" लोचनगोचरम् । तदंगमंगजस्फारशरोग्रं न करोति किम् ॥ ७५॥ किं च, स्त्रीणां दर्शनमादरेक्षणमतो वार्तेष्टवार्ता मनाङ् नोक्तिर्नतिनर्मरत्यनुगवाक श्रृंगारसारं वचः। स्वान्तस्योल्लसनं धृतेः क्षितिरतिप्रीतिर्मतेओन्तिता तस्यां च स्मरवीरविशिखवातस्य लक्षः क्षणात् ॥७६ ॥ चिरप्रव्रजितः सूरिः स्थविरः श्रुतपारगः। तपस्वीति यतो नास्ति गणना विषमायुधे ॥ ७७॥ विधवां लिंगिनी कन्यां स्वैरिणी गणिकादिकाः। आसजन्नचिराद्भिक्षुरपवादैकमन्दिरम् ॥ ७८॥ संवृतांगोऽतिगंभीरो जिताखिलपरीषहः।। ज्ञानचारित्रवान् सूरिरार्याणां मितभाषणः ॥ ७९ ॥ आज्ञाभंगादिदोषाहः करोति यदि सूरिताम् । मदोदयाद्गुणतातेनैतेन रहितो यतिः॥ ८०॥ लज्जाविनयवैराग्यसदाचारादिभूषिते। आर्याव्राते समाचारः संयतेष्विव किन्त्विह ॥ ८१॥ द्वयाद्याः समं वसंत्यार्या गृहस्था संकराश्रये । तद्गृहानतिदूरातिसमीपेऽवद्यवर्जिते ॥ ८२॥ मौनेनाटति भिक्षार्थ वृद्धार्यान्तरिता गृहान् । अन्योन्यपरिरक्षानुकूलवृत्तिपरायणाः ॥८३॥ अन्यदावश्य गन्तव्यं धर्मकार्य गृहेऽस्ति चेत् । गाणन्यादेशतो यांति द्वयाद्याः सार्धं न चान्यथा ॥८४॥ १ गणिनीं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy