Book Title: Aachar Sara
Author(s): Indralal Shastri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
चतुर्थाऽधिकारः ।
भौमभावनयोयजनानि स्युः पंचविंशतिः । जघन्यक्षेत्रं ज्योतिष्के ततः संख्यात संगुणम् ॥ ४६ ॥ असुरेष्वसंख्यकोट्यः स्युरुत्कृष्टमपरेषु तु । ज्योतिष्कान्तेष्वसंख्यातसहस्राणि ततः क्रमात् ॥ ४७ ॥ द्विद्विश्चतुश्चतुर्द्विर्द्विर्नव चतुर्दशस्वपि । कल्पेषु स्याद्विमानेषु कल्पातीतेषु चावधेः ॥ ४८ ॥ अधो धर्मादि लोकान्तादारभ्य त्रसनालिकम् । क्षेत्रमूर्ध्वं वरक्षेत्रं स्वस्वलोकान्तसंस्थितम् ॥ ४९ ॥ त्रिकम् । अयं स्यादवधिबोधावृतिवीर्यान्तराययोः । क्षयोपशमतो बोधोऽसंख्यलोकविकल्पतः ॥ ५० ॥ स्यादेतत्रयमज्ञानं मिथ्यानं तानुबन्धिनाम् । उदयेनाऽऽशु कटु वा कलाबुगतं पयः ॥ ५१ ॥ मनो देशावधेज्ञेयं मध्यमं चिन्तितादिकम् । परैः पर्येति तद्यत्तन्मनः पर्ययबोधनम् ॥ ५२ ॥ ऋजुविपुलमती तद्भेदावाद्या त्रिभेदगा । ऋजुकायवाक्य चेतोगतार्थविषयत्वता ॥ ॥ ५३ ॥ ऋज्वऋजुदेहवाक्यस्वान्तस्वार्थावबोधनात् । विपुलमतिः षद्भेदाऽसंख्यकल्प मिता च सा ॥ ५४ ॥ मनः पर्ययविज्ञानावृतिवीर्यान्तराययोः । जातं मन्दोदयादेतत्क्षायोपशमिकं ततः ॥ ५५ ॥ त्रिकालानंतधर्मात्मानंतवस्तुप्रकाशकम् । युगपत्केवलं ज्योतिः करणावरणातिगम् ॥ ५६ ॥ क्षणं प्रत्यक्षरं ज्ञेयैः समं विपरिवर्तते । तदेकमुपमाततिं परमानन्दमन्दिरम् ॥ ५७ ॥
परद्रव्येन्द्रियानेकप्रकाशादिवशीकृते । मतिश्रुते परोक्षे स्तः प्रत्यक्षमवधित्रयम् ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
२५
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106