________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८०८ (B)
+H
यत्र चिक्खल्लः कर्दमो भूयान्न भवति १, प्राणाश्च द्वीन्द्रियादयो भूयांसो न सम्मूर्च्छन्ति २, यत्र च भूयांसि स्थण्डिलानि ३, वसतयश्च द्वित्रादयो यत्र प्राप्यन्ते ४, गोरसं च प्रभूतम् ५, प्रत्येकं भूयोजनसमाकुलः कुलवर्गः ६, वैद्यश्च यत्र विद्यते ७, औषधानि च । सुप्रतीतानि ८, निचयाश्च धान्यानामतिप्रभूताः ९, अधिपतिः प्रजानामतीव सुरक्षको वर्तते १०, पाषण्डाश्च स्तोका विद्यन्ते ११, भिक्षा च सुलभा १२, स्वाध्यायश्च निर्व्याघातः १३ । एतदुत्कृष्टं वर्षासु योग्यं क्षेत्रम् ॥ १७५१ ॥
साम्प्रतमेतद्गुणाभावे वर्षासु वसतां प्रायश्चित्तमाहपाणार थंडिल २वसही३, अहिवति४ पासंड५ भिक्ख६ सज्झाए७ ।। लहुया सेसे लहुओ, केसिंची सव्वहिं लहुगा ॥ १७५२ ॥
यदि यत्र प्राणा अतिबहवः१, यदि वा न विद्यन्ते स्थण्डिलानिर, वसतयो वा द्वित्रादिका |* न विद्यन्ते३, अधिपतिर्वा नास्ति४, पाषण्डा वा बहवः५, भिक्षा वा न सुप्रापा ६, स्वाध्यायो
गाथा १७५०-१७५५ चातुर्मास
योग्यक्षेत्रगुणा: १३
८०८ (B)
For Private and Personal Use Only