________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
८१४ (B)
कीर्तिश्चावदाता सकलधरामण्डलव्यापिनी, यथा भगवतः आर्यवैरस्येति ॥ १७६७ ॥
अधुना पञ्चकं व्याख्यानयतिसंगहु १ वग्गह २ निजर ३, सुयपज्जवजायम ४ ऽव्ववच्छित्ती ५। पणगमिणं पुव्वुत्तं, जे वाऽऽयहितोपलंभादी ॥ १७६८ ॥ दारं १३॥
यत्पञ्चकं पूर्वमुक्तं तद् इदम् तद्यथा-सङ्ग्रहः १ उपग्रहः २ निर्जरा ३ श्रुतपर्यवजातम् ४ अव्यवच्छित्तिश्च ५। तत्र सङ्ग्रहः शिष्यादेः, तथा च श्रुतेन शिष्यादयः सगृह्यन्ते १। उपग्रह: उपष्टम्भः स च श्रुतज्ञानादिप्रदानतः २। निर्जरा ज्ञानावरणादिकर्मविनिर्जरणम् ३। | श्रुतपर्यवजातं प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धिः ४। अव्यवच्छित्तिस्तीर्थस्य ५। ये || वाऽऽत्महितोपलम्भादयः आत्महितोपलम्भः१ परहितोपलम्भ:२ उभयहितोपलम्भ:३ एकाग्र्यं४ | बहुमानं५ चेति। एतद्वा पञ्चकं प्रतिपत्तव्यम् १३ ॥ १७६८ ॥
८१४ (B) १. आरक्षितस्य-पु. प्रे. c आदर्श ॥ २. ज्ञानम्- मो. सं. ॥ ३. ज्ञानम्- C॥
गाथा १७६७-१७७१ स्वाध्यायलाभ:
For Private and Personal Use Only