________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशक:
८२४ (B)
एतेषामुपाश्रयाणां मध्ये कुतश्चिदेकतरस्मादुपाश्रयाद्विचारादिनिमित्तं कोऽपि विनिर्गतः, तं दृष्ट्वा कोऽपि प्रविव्रजिषुः पृच्छेत्, यथा- कुत्र साधूनां वसतिः? इति। स ब्रूते-किं कारणं त्वं पृच्छसि? शैक्षः प्राह-प्रव्रजिष्यामीति । तत्र स यदि एवं पृष्टः सन् दूर कहंतो न लभे मासो इति आत्मीयमपाश्रयं दूरमासन्नं वा कथयति तर्हि तस्य प्रायश्चित्तं लघुको मासः, न च तं शिष्यं लभते। कस्य पुनः स आभवति? इति चेत्, तत आह- योऽभ्यासे तस्य। किमुक्तं भवति? तस्मादवकाशाद् यस्य प्रत्यासन्नतर उपाश्रयस्तस्याऽऽभवति ॥ १७८९ ।। किह पुण साहेयव्वा, उद्दिसियव्वा जहक्कम सव्वे । अह पुच्छइ संविग्गे, तत्थ व सव्वे व अद्धा वा ॥ १७९० ॥ कथं पुनः कथयितव्या उपाश्रयाः? । सूरिराह- उद्देष्टव्या यथाक्रमं सर्वे । यथा- || गाथा
१७८९-१७९२ अमुकस्याऽऽचार्यस्यामुकप्रदेशे उपाश्रयः, अमुकस्यामुकप्रदेशे । एवं कथिते यत्र व्रजति तस्य स आभवति । अथ स पृच्छति संविग्नान् बहुश्रुततरान् तपस्वितरांश्चेत्यर्थः, तत्र यथाभावमाख्यातव्यम्। वितथाख्याने मासलघु, न च स तं लभते । किन्तु ये तपस्वितरा
८२४ (B) बहुश्रुततराश्च तेषां स आभवति । अथ सर्वे अर्धा वा संविग्नास्ततस्तथैवाऽऽख्याने यत्र स व्रजति तस्य स आभवति, न शेषस्येति ॥१७९०॥
आभवनव्यवहारः
For Private and Personal Use Only