Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम उद्देशक: १०२४ (B)
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आर्यरक्षितकालेऽपि यदि संयत्या मूलगुणापराध आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते । तस्याः असति अभावे यः कृतयोगी सूत्रतोऽर्थतश्च छेदग्रन्थधरः स्थविरस्तस्य समीपे आलोचयति । नवरं शङ्कितानि स्थानानि वक्ष्यमाणानि शून्यगृहादीनि मुक्त्वा । किञ्च आचीर्णे उचिते प्रदेशे आलोचयितव्यम् । यत्र ध्रुवकर्मिको दृष्टिपथे वर्तते, दृष्ट्या पश्यति, न शृणोति तत्र जवनिकान्तरिता आलोचयति । तरुणी थेरस्स इत्येष तृतीयभङ्ग उपात्तः । स च शेषभङ्गानां त्रयाणामप्युपलक्षणं, ते चेमे-स्थविरा स्थविरस्यालोचयति १ । स्थविरा तरुणस्यालोचयति २ । तरुणी स्थविरस्यालोचयति ३ । तरुणी तरुणस्य आलोचयति ४ ।। २३४९ ॥
यदुक्तं मुक्त्वा शङ्कितानि स्थानानि, सम्प्रति तान्येवोपदर्शयति— सुण्णघर- देउलुज्जाण-रण्ण- पच्छण्णुवस्सयस्संतो । एयविवज्जे ठायंति, तिणिण चउरोऽहवा पंच ॥ २३५० ॥
शून्यगृहं देवकुलम् उद्यानम् अरण्यं प्रच्छन्नं च स्थानं तथा उपाश्रयस्यान्तर्मध्ये एतद्विवर्जे एतद्विरहिते प्रदेशे आलोचनानिमित्तं तिष्ठन्ति । ते च जघन्यतस्त्रयो यदि वा चत्वारोऽथवा पञ्च । ते च त्रिप्रभृतयो वक्ष्यमाणभङ्गकानुसारेण प्रतिपत्तव्याः ॥२३५० ॥
For Private and Personal Use Only
܀܀܀
गाथा
| २३४८- २३५४ आलोचना ग्रहणविधिः
(१०२४ (B)

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540