SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पंचम उद्देशक: १०२४ (B) ܀܀܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आर्यरक्षितकालेऽपि यदि संयत्या मूलगुणापराध आलोचयितव्यस्तर्हि संयत्याः सकाशे आलोच्यते । तस्याः असति अभावे यः कृतयोगी सूत्रतोऽर्थतश्च छेदग्रन्थधरः स्थविरस्तस्य समीपे आलोचयति । नवरं शङ्कितानि स्थानानि वक्ष्यमाणानि शून्यगृहादीनि मुक्त्वा । किञ्च आचीर्णे उचिते प्रदेशे आलोचयितव्यम् । यत्र ध्रुवकर्मिको दृष्टिपथे वर्तते, दृष्ट्या पश्यति, न शृणोति तत्र जवनिकान्तरिता आलोचयति । तरुणी थेरस्स इत्येष तृतीयभङ्ग उपात्तः । स च शेषभङ्गानां त्रयाणामप्युपलक्षणं, ते चेमे-स्थविरा स्थविरस्यालोचयति १ । स्थविरा तरुणस्यालोचयति २ । तरुणी स्थविरस्यालोचयति ३ । तरुणी तरुणस्य आलोचयति ४ ।। २३४९ ॥ यदुक्तं मुक्त्वा शङ्कितानि स्थानानि, सम्प्रति तान्येवोपदर्शयति— सुण्णघर- देउलुज्जाण-रण्ण- पच्छण्णुवस्सयस्संतो । एयविवज्जे ठायंति, तिणिण चउरोऽहवा पंच ॥ २३५० ॥ शून्यगृहं देवकुलम् उद्यानम् अरण्यं प्रच्छन्नं च स्थानं तथा उपाश्रयस्यान्तर्मध्ये एतद्विवर्जे एतद्विरहिते प्रदेशे आलोचनानिमित्तं तिष्ठन्ति । ते च जघन्यतस्त्रयो यदि वा चत्वारोऽथवा पञ्च । ते च त्रिप्रभृतयो वक्ष्यमाणभङ्गकानुसारेण प्रतिपत्तव्याः ॥२३५० ॥ For Private and Personal Use Only ܀܀܀ गाथा | २३४८- २३५४ आलोचना ग्रहणविधिः (१०२४ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy