Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 499
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀܀܀ श्री व्यवहार सूत्रम् पंचम उद्देशकः १०२८ (B) www.kobatirth.org भिक्खू विसमयण छेवग, एएहिं गणो उ होज्ज आवणो । वायपराइउवासे, संखडिकरणं च वित्थिण्णं ॥ २३६२॥ Acharya Shri Kailassagarsuri Gyanmandir भिक्षूपासकः कोऽपि विषमिश्रं भोजनं दद्यात्, मदनं मदनकोद्रवकूरं वा प्रतिलाभयेत् । छेवगत्ति मारिर्वा सकलस्यापि साधुगणस्योपस्थिता । एतैः कारणैर्गण आपन्नो विपन्नो भवति । तत्र प्रथमतो भिक्षूपासकस्य प्रतिनिविष्टस्य विषमिश्रभोजनदानं भावयतिकोsप्युपासको भिक्षूपासको बहुजनमध्ये वादे पराजितः ततः स प्रतिनिविष्ट जातः । स च कैतवेनाऽऽचार्याणां समीपे सम्यगुपस्थितः - 'कथय मे भगवन्! आर्हतं धर्मम्' । आचार्येण कथितः । ततः स कैतवेन ब्रूते- 'अद्यप्रभृति ममाऽऽर्हतो धर्मो मया युष्मत्समीपे गृहीतः ' एवमुक्त्वा आचार्यान् विज्ञपयति, यथा- मया भिक्षूणामर्थाय विस्तीर्णं सङ्घडिकरणं कृतं, प्रभूतं परमान्नमुपस्कृतं, कारितमित्यर्थः । तन्मा असंयतास्ते भुञ्जीरन्निति साधूनां प्रयच्छामि, अनुगृह्णीत मां यूयमिति । एवमुक्ते साधवश्चिन्तयन्ति - सत्यमेतत् यदेष ब्रूते ततो गृह्णीम इति । ततस्तेषु गतेषु तस्मिन् परमान्ने विषं क्षिप्तम्, साधूनां पर्याप्तं दत्तम् । तच्च साधुभिराहारितं, तेन सर्वे पतिताः ॥२३६२ ॥ For Private and Personal Use Only गाथा | २३६१-२३६७ अपवादे विपक्षे वैयावृत्त्यम् ܀܀܀܀ १०२८ (B)

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540