________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पंचम
उद्देशकः १०४२ (B)
उपसंहारमाहतम्हा उ सपक्खेणं, कायव्व गिलाणगस्स तेगिच्छं । विवक्खेण न कारज्जा, एवं उदितम्मि चोदेति ॥२४१५॥
यस्माद् विपक्षे दोषास्तस्मात्सपक्षेण ग्लानस्य चिकित्साकर्म कर्तव्यम्, विपक्षण पुनर्न कारयेत्। तदेवं सम्बन्धः, ततः सूत्रस्य व्याख्यालक्षणं, तदनु आक्षेप-परिहारौ, तत्प्रसक्त्याऽन्यदपि चाभिहितम् । सम्प्रति सूत्रव्याख्या क्रियते__निर्ग्रन्थं चशब्दान्निर्ग्रन्थीं च रात्रौ वा विकाले वा दीर्घपृष्ठः सर्पो लूषयेत् दशेत् तत्र स्त्री वा पुरुषस्य हस्तेन तं विषमपमार्जयेत्, पुरुषो वा स्त्रिया हस्तेन, एवं से तस्य स्थविरकल्पिकस्य कल्पते। स्थविरकल्पस्याऽपवादबहुलत्वात्। एवं च अमुना प्रकारेणापवादमासेवमानस्य से तस्य तिष्ठति पर्यायः, न पुनः स्थविरकल्पात्परिभ्रश्यति, तेन छेदादयः | प्रायश्चित्तविशेषास्तस्य न सन्ति, परिहारं च तपो न प्राप्नोति । कारणेन यतनया प्रवृत्तेः । एष
गाथा
|२४१३-२४१८ २०४२ (B)
१. आकुली' सं. वा. मो. पु. मु. ॥
For Private and Personal Use Only