Book Title: Vyavahar Sutram Part 03
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 492
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् पंचम उद्देशक: TEUR १०२५ (A) ܀܀܀܀܀ www.kobatirth.org भङ्गकानेवाह थेर-तरुणेसु भंगा, चउरो सव्वत्थ परिहरे दिट्ठि । दोहं पुण तरुणाणं, थेरे थेरी य पच्चुरसं ॥ २३५१ ॥ स्थविर - तरुणेषु भङ्गाश्चत्वारः, ते च प्रागेवोपदर्शिताः स्थविरा स्थविरस्यालोचयतीत्यादि । तत्र यदि जवनिकाया अवकाशो नास्ति ततः सर्वत्र चतुर्ष्वपि भङ्गेषु दृष्टिं परिहरेत् । भूमिगतदृष्टिका सती आलोचयेत्, यथा आलोचनार्हः शृणोति । तत्र चतुर्थभङ्गे द्वयोस्तरुणयोः स्थविर: स्थविरा च प्रत्युरसमिति प्रत्यासन्नौ सहायौ दीयेते, येन परस्परं तौ दृष्टिं न बध्नीतः, नापि मुखविकारं कुरुत: । एवमस्मिन् चतुर्थे भङ्गे चत्वारो भवन्ति ॥ २३५१ ॥ थेरो पुण असहाओ, निग्गंथी थेरिया वि ससहाया । सरिसवयं च विवज्जे, असतीए पंचमं कुज्जा ॥ २३५२ ॥ Acharya Shri Kailassagarsuri Gyanmandir तृतीयभङ्गे पुनः स्थविरोऽसहायोऽपि भवतु, तरुण्याः पुनः स्थविरा सहाया दीयते । द्वितीयभङ्गे निर्ग्रन्थी स्थविरापि ससहाया कर्तव्या । तरुणस्यालोचनार्हस्य सहायोऽस्तु वा न वा, न कश्चिद्दोषः । एवं च तृतीये द्वितीये च भङ्गे त्रयो जना भवन्ति । तथा सदृशवयो For Private and Personal Use Only गाथा | २३४८ - २३५४ आलोचना ग्रहणविधिः १०२५ (A)

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540