________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८२६ (A)
वचनाच्छादनं यथा कूटाख्यातृत्वेन न लक्ष्यते, मायानिकृती प्रधाने यस्य स तथा, एभिर्वक्ष्यामाणैश्चैत्यादिभिर्विपरिणामयति ॥१७९३ ॥
तान्येव विपरिणामस्थानानि चैत्यादीनि दर्शयतिचेइय१ साहू२ वसही, वेजा४ व न संति तम्मि देसम्मि । पडिणीय ५ सण्णि६ साणे७ वियार८ खेत्ता९ अहिगमग्गो१० ॥ १७९४॥
दारगाहा।। यत्र त्वया गन्तव्यं तस्मिन् देशे चैत्यानि १ यदि वा साधवः २अथवा वसतयः ३ यद्वा वैद्या न सन्ति ४। तथा बहवस्तत्र प्रत्यनीका: ५ न च दानादिप्रधानानि संज्ञिकुलानि ६ श्वानः प्रभूताः ७ न च तत्र विचारभूमिः, सर्वत्र पानीयाकलत्वात ८ नापि तत्र विहारयोग्यानि क्षेत्राणि ९ अधिकश्च भूयान्मार्गः पन्थाः १०। एतैः प्रकारैर्विपरिणामयति ॥ १७९४ ॥
तत्र प्रथमतश्चैत्यमधिकृत्याह
गाथा १७९८-१७९९ विपरिणामस्थानानि मुमुक्षोः
८२६ (A)
१. कारणै० पु. प्रे.॥
For Private and Personal Use Only