________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
८२५ (A)
एतदेव सविशेषमाहमोत्तूण असंविग्गे, जे जहियं ते उ साहती सव्वे । सिट्ठम्मि जेसि पासं, गच्छति तेसिं न अन्नेसिं ॥ १७९१ ॥
इह ये पार्श्वस्थादयोऽसंविग्नास्ते यदि पृच्छ्यन्ते तदा ते न कथनीयाः, तान् मुक्त्वा शेषेषु पृष्टेषु ये यत्र विद्यन्ते तान् तत्र सर्वान् कथयति । शिष्टे च कथिते च सति येषां पार्वं गच्छति तेषामाभवति, नान्येषाम् ॥ १७९१ ॥
णीयल्लगाण व भया, हिरि व त्ति असंजमाहिगारे वा । एमेव देस रज्जे, गामेसु व पुच्छ कहणं तु ॥ १७९२ ॥
इह कोऽपि तस्मिन् ग्रामे नगरे देशे राज्ये वा न प्रव्रजति। किं कारणम् ? इति चेत्, उच्यते-निजकानां स्वज्ञातीनां भयात्, मा निजका उत्प्रव्राजयेयुः, प्रव्रजन्तं वा मा रुन्ध्युरिति। यदि वा तेषां निजकानां समक्षं लज्जते, ततो हीतः। वा अथवा असंयमाधिकारः
गाथा १७८९-१७९२
आभवनव्यवहारः
८२५ (A)
For Private and Personal Use Only