Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
परिणामः, भूतः पूर्व-संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम्, सांप्रतं तु तच्छ्रन्यम् , तत्पुनः कस्यापि शरीर जीवद्रयं वा तेद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम् । 'तस्स वा जयं जोग्गं ति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमर्ह शरीरं जीवद्रव्यं वा, तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा यत् खभावत एच शोभनवर्णादिगुणं सुवर्णादिकं वस्तु, आदिशब्दाद् रत्न-दध्य-ऽक्षत-कुसुम-मङ्गलकलशादिपरिग्रहः तदेतज्ज्ञ- भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् मङ्गलम् , इत्याह- 'तं पीत्यादि' हुर्यस्मादर्थे, यस्मात् तदपि सुवर्णादिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्गलं निर्दिष्टम् । यच्च कारणं तद् “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्" इत्यादिवचनाद् द्रव्यतयापि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति । नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति । पूर्व ज्ञ-भव्यशरीरयोः केवलमागमाभावापेक्षं द्रव्यमङ्गलवमुक्तम्, अत्र तु क्रियाऽभावमाश्रित्येति भावनीयम् ॥ इति गाथाटूयार्थः॥४७॥४८॥
___तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् । अथ भावमङ्गलमुच्यते, तस्य च लक्षणं नाम-स्थापना-द्रव्याणामिव भाष्यकृता केनापि कारणेन नोक्तम् । तच्चेत्थमवगन्तव्यम
- "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात्" ॥१॥ इति ।
अत्राऽयमर्थः- भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् , इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव, इत्याह-इन्द्रादिवत् ' स्वगाधिपादिवत् , आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं भावः, इत्याह-'इन्दनादिक्रियानुभवात्' इति, आदिशब्देन ज्वलन-जीवनादिक्रियास्वीकारः। विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च भावमङ्गलम् , भावतो वा परमार्थतो मङ्गलं भावमङ्गलमिति प्रस्तुतयोजना॥ एतदपि द्विविधम्- आगमतः, नोआगमतश्च । तत्राऽऽगमतस्तावदाह
मंगलसुयउवउत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ॥ ४९ ॥ मङ्गलं च तच्छ्रतं च मङ्गलश्रुतं मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो ' वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति ।
१ मङ्गलश्रुतोपयुक्त आगमतो भावमङ्गलं भवति । नोआगमतो भावः सुबिशुद्धः क्षायिकादिकः ॥ ४५ ॥ अत्राह-ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि यक्ता भावमङ्गलमुच्यते , तदुपयोगमात्रस्येव तद्रूपताया युक्तिसंगतत्वात् , न धानिज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाह--पाकादिक्रियाकरणमसङ्गादिति । अनोच्यते- उपयोगः, ज्ञानं, संवेदनं, प्रत्यय इति तावदनान्तरम् , अर्थाभिधानमत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुनोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते ।, घटः, किमसौ वक्ति ?, घटस्, किमस्य चेतसि स्फुरति ?, घदः । एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , अतन्मयत्वात् , मदीपहस्तान्धवत् , पुरुषान्तरखद् वा । न चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदभसङ्गात् । अपिच, घटादिज्ञान-तद्वतोर्व्यतिरेके बन्धाद्यभावः पामोति, यथा हि ज्ञाना-ऽज्ञान-सुख-दुःखादिपरिणामस्याऽन्यत्वे आकाशस्य बन्धादयो न भवन्ति, एवं जीवस्यापि न भवेयुरिति भावः ॥ आह-- यदि घटोपयोगानन्यवाद् देवदत्तोऽपि घटः, अग्न्युपयोगानन्यत्वाच्च माणवकोऽप्यग्निः, तर्हि जलाहरण-दाह-पाकाद्यर्थक्रियामसङ्गः । तदयुक्तम्, न हि सर्वोऽपि घटो जलाहरणं करोति, नापि समस्तोऽप्यग्निर्दाह-पाकापर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भस्मच्छन्नवह्निना च व्यभिचारात् । न चाऽसौ न घटः, नाग्निर्वा, लोकमतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमङ्गलमिति स्थितम् ॥ नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिक-क्षायोपशमिकादिको भावो भावमङ्गलम् , भाय एव मङ्गलं भावमङ्गलमिति कृत्वा । उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन--चारित्राणि च नोआगमतो भावमङ्गलतया वाच्यानि; भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा ॥ इति गाथार्थः॥ ४९॥
प्रकारान्तरेणाऽपि नोमागमतो भावमङ्गलमाह
अहवा सम्मइंसण-नाण-चरित्तोवओगपरिणामो । नोआगमओ भावो नोसदो मिस्सभावम्मि ॥ ५॥ - अथवा प्रतिक्रमण-प्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञान-दर्शन-चारित्रोपयोगपरिणाम:, स नोआगमतो भावो भावमङ्गलं भवति । नोशब्दश्चाऽत्र मिश्रवचनः, यस्माद् नाऽसौ ज्ञान--दर्शन-चारित्रोपयोगपरिणामः केवल एवाऽऽगमः, चारित्रादेरपि सद्भावात् , नाऽप्यनागम एव, ज्ञानस्याऽपि विद्यमानत्वात्, इति मिश्रता ।। इति गाथार्थः॥५०॥
१ भगवा सम्यग्दर्शन-शान-चारित्रोपयोगपरिणामः । नोआगमतो भावो नोशब्दो मिनभावे ॥ ५० ॥
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 ... 339