Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा० मालपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तु द्रव्यमङ्गलता, यथा भविष्यघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता । नोआगमत इत्येतद् विवृण्वनाह-आगमरहिओ इत्यादि' नोशब्दस्य सर्वनिषेधवचनत्वात् नोआगमत इत्यनेनैतदुक्तं भवति, किम् ?, इत्याह-मङ्गलपदार्थज्ञस्य भव्यस्य च संबन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वथैवाऽऽगमरहितः ।। इति गाथार्थः ॥४४॥ तदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शितम् , यदिवा देशनिषेधपरेऽपि नोशब्दे एतत् संबध्यत एवेति दर्शयन्नाह- . अहवा नो देसम्मि, नोआगमओ तदेगदेसाओ । भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ ४५ ॥ अथवा 'नो' इति नोशब्दः 'देसम्मि त्ति' देशनिषेधवचनो विवक्ष्यत इत्यर्थः । ततश्च नोआगमत इति कोऽर्थः ?, इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मङ्गलपदार्थमस्याऽचेतनः, भव्यस्य तु सचेतनो देहइत्यनुवर्तमान संबध्यते । कः पुनरिहाऽऽगमस्यैकदेशो यमाश्रित्य नोआगमतो द्रव्यमङ्गलमिदं स्यात् । इति । अत्रोच्यते-यथोक्तो - भव्यशरीररूपो देह एवात्राऽऽगमैकदेशः । ननु जडस्य देहस्य कथमागमैकदेशता ?, इति । अत्राह- 'भूयस्सेत्यादि' यद् यस्मादचेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम: तस्माद् निजकार्यस्याऽऽगमस्यैकदेशे वर्तत एव; कारणं हि कार्यस्यैकदेशे वर्तत एव, यथा मृत्तिका घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । नैवम् , भेदाभेदयोरेव जैनैरिष्ठत्वात, यद् वक्ष्यति " नेत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो त्ति पुत्वं नासी पुढवी तओ अण्णो" ॥१॥ आह-ननु मङ्गलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु; यथा मृत्तिकायाः, शरीरं स्वागमस्य परिणामिकारणं न भवति, अतः कथं तस्य तदेकदेशवृत्तिता । सत्यम, किन्तु “अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं, जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एव व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्यापि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते । भवत्वेवम् , तथाप्यागमतो द्रव्यमङ्गलं प्राग् यदुक्तं तेन सहाऽस्य को भेदः, तत्रापि हि "आगमकारणमाया देहो सद्दो य" इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् । अत्रापि च तदेव, इति अथवा नो देशे, नोआगमतस्तदेकदेशात । भूतस्य भाविनो वाऽऽगमस्य यत् कारणं देहः॥ ५५॥ म्मी -1 २ नास्ति पृथिवीविशिष्टो घट इति यत् तेन चुज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः॥१॥ ३ अन्योऽन्याऽनुगतानामिदं च तच्चेति विभजनमयुक्तम्, यया क्षीरपानीययोः । ४ गाथा ३.1 कथं नैकत्वम् ? । सत्यम् , किन्तु प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूभयस्वरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात् , इति विशेषः ॥ इति गाथार्थः ।। ४५॥ नदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम् , सांगतं शरीर-भव्यशरीरव्यतिरिक्तखरूपं तत्तुतीयभेदमुपदर्शयन्नाह जाणय--भव्वसरीराऽइरित्तमिह दबमङ्गलं होइ । जा मङ्गल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥ ४६॥ इह तावद् भावतः परमार्थतो मङ्गलं द्विविधम्--जिनप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणादिक्रिया च । इतच पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मगल्यक्रियामेवाऽऽश्रित्य भणिष्यत इति परिभावनीयम् । अथ गाथार्थो व्याख्यायते-तत्र ज्ञशरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति । कः ?, इत्याह- अनुपयुक्तः, तां कुर्वाणो या । किम् ?, इत्याह-या प्रत्युपेक्षण-प्रमार्जनादिका माल्या क्रिया । इदमुक्तं भपति-योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति, स नोआगमतो ज्ञशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् : उपयोगरूपोऽत्राऽऽगमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता; अत्र तु क्रियापेक्षा, अतस्तद्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात तु द्रव्यमङ्गलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलतैव स्यादिति भावः ॥ इति गाथार्थः ॥ ४६॥ अथ प्रकारान्तरेणापि प्रस्तुतमङ्गलमाह9 भूयभावमङ्गलपरिणाम तरस वा जयं जोग्गं । जं वा सहावसोहणवन्नाइगुणं सुवण्णाई ॥ ४७ ॥ .. तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिढं। नोआगमओ दव्वं नोसदो सव्बपडिसेहे ॥ ४८ ॥ नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संवन्धः । किं तत् १, इत्याहयद् भूतभावमङ्गलपरिणामम् , इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिभावमङ्गल १ ज्ञार्यक-भव्यशरीरातिरिक्तमिह द्रव्यमङ्गलं भवति । या मङ्गल्या क्रिया तां कुर्वाणोऽनुपयुक्तः ॥ ४६॥x इ-1 २ यद् भूतभावमङ्गलपरिणामं, तस्य वा यद् योग्यम् । यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि ॥४७॥+क्तम-1 तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम् । नोआगमतो द्रव्यं नोशब्दः सर्वप्रतिषेधे ॥४८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 339