________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा० मालपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तु द्रव्यमङ्गलता, यथा भविष्यघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता । नोआगमत इत्येतद् विवृण्वनाह-आगमरहिओ इत्यादि' नोशब्दस्य सर्वनिषेधवचनत्वात् नोआगमत इत्यनेनैतदुक्तं भवति, किम् ?, इत्याह-मङ्गलपदार्थज्ञस्य भव्यस्य च संबन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वथैवाऽऽगमरहितः ।। इति गाथार्थः ॥४४॥ तदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शितम् , यदिवा देशनिषेधपरेऽपि नोशब्दे एतत् संबध्यत एवेति दर्शयन्नाह- . अहवा नो देसम्मि, नोआगमओ तदेगदेसाओ । भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ ४५ ॥
अथवा 'नो' इति नोशब्दः 'देसम्मि त्ति' देशनिषेधवचनो विवक्ष्यत इत्यर्थः । ततश्च नोआगमत इति कोऽर्थः ?, इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मङ्गलपदार्थमस्याऽचेतनः, भव्यस्य तु सचेतनो देहइत्यनुवर्तमान संबध्यते । कः पुनरिहाऽऽगमस्यैकदेशो यमाश्रित्य नोआगमतो द्रव्यमङ्गलमिदं स्यात् । इति । अत्रोच्यते-यथोक्तो - भव्यशरीररूपो देह एवात्राऽऽगमैकदेशः । ननु जडस्य देहस्य कथमागमैकदेशता ?, इति । अत्राह- 'भूयस्सेत्यादि' यद् यस्मादचेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम: तस्माद् निजकार्यस्याऽऽगमस्यैकदेशे वर्तत एव; कारणं हि कार्यस्यैकदेशे वर्तत एव, यथा मृत्तिका घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । नैवम् , भेदाभेदयोरेव जैनैरिष्ठत्वात, यद् वक्ष्यति
" नेत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो त्ति पुत्वं नासी पुढवी तओ अण्णो" ॥१॥
आह-ननु मङ्गलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु; यथा मृत्तिकायाः, शरीरं स्वागमस्य परिणामिकारणं न भवति, अतः कथं तस्य तदेकदेशवृत्तिता । सत्यम, किन्तु “अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं, जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एव व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्यापि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते । भवत्वेवम् , तथाप्यागमतो द्रव्यमङ्गलं प्राग् यदुक्तं तेन सहाऽस्य को भेदः, तत्रापि हि "आगमकारणमाया देहो सद्दो य" इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् । अत्रापि च तदेव, इति
अथवा नो देशे, नोआगमतस्तदेकदेशात । भूतस्य भाविनो वाऽऽगमस्य यत् कारणं देहः॥ ५५॥ म्मी -1 २ नास्ति पृथिवीविशिष्टो घट इति यत् तेन चुज्यतेऽनन्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः॥१॥
३ अन्योऽन्याऽनुगतानामिदं च तच्चेति विभजनमयुक्तम्, यया क्षीरपानीययोः । ४ गाथा ३.1 कथं नैकत्वम् ? । सत्यम् , किन्तु प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूभयस्वरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात् , इति विशेषः ॥ इति गाथार्थः ।। ४५॥
नदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम् , सांगतं शरीर-भव्यशरीरव्यतिरिक्तखरूपं तत्तुतीयभेदमुपदर्शयन्नाह
जाणय--भव्वसरीराऽइरित्तमिह दबमङ्गलं होइ । जा मङ्गल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥ ४६॥
इह तावद् भावतः परमार्थतो मङ्गलं द्विविधम्--जिनप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणादिक्रिया च । इतच पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मगल्यक्रियामेवाऽऽश्रित्य भणिष्यत इति परिभावनीयम् । अथ गाथार्थो व्याख्यायते-तत्र ज्ञशरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति । कः ?, इत्याह- अनुपयुक्तः, तां कुर्वाणो या । किम् ?, इत्याह-या प्रत्युपेक्षण-प्रमार्जनादिका माल्या क्रिया । इदमुक्तं भपति-योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति, स नोआगमतो ज्ञशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् : उपयोगरूपोऽत्राऽऽगमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता; अत्र तु क्रियापेक्षा, अतस्तद्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात तु द्रव्यमङ्गलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलतैव स्यादिति भावः ॥ इति गाथार्थः ॥ ४६॥
अथ प्रकारान्तरेणापि प्रस्तुतमङ्गलमाह9 भूयभावमङ्गलपरिणाम तरस वा जयं जोग्गं । जं वा सहावसोहणवन्नाइगुणं सुवण्णाई ॥ ४७ ॥ .. तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिढं। नोआगमओ दव्वं नोसदो सव्बपडिसेहे ॥ ४८ ॥
नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संवन्धः । किं तत् १, इत्याहयद् भूतभावमङ्गलपरिणामम् , इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिभावमङ्गल
१ ज्ञार्यक-भव्यशरीरातिरिक्तमिह द्रव्यमङ्गलं भवति । या मङ्गल्या क्रिया तां कुर्वाणोऽनुपयुक्तः ॥ ४६॥x इ-1 २ यद् भूतभावमङ्गलपरिणामं, तस्य वा यद् योग्यम् । यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि ॥४७॥+क्तम-1 तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम् । नोआगमतो द्रव्यं नोशब्दः सर्वप्रतिषेधे ॥४८॥
For Private and Personal Use Only