________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
16
विशेषा०
परस्मिन् वर्तते तदपि द्रव्यमा
परक व परकीय वा यत् द्रव्यमङ्गलं तदप्यस्यान्तसमयभाषि, नाऽप्यनुत्पनं भविष्य
ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिल वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्वकमात्मीयमेव, तथा सांपत च वर्तमानक्षणभाष्येव यत् द्रव्यमङ्गलं तदेवैकमभिमतम् । अनभिमतमतिषेधमाह-नातीतम् , अतिक्रान्तसमयभाषि, नाऽप्यनुत्पलं भविष्यसमयमावि द्रव्यमङ्गलम्, अस्येष्टम् । 'परक व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम् , विवक्षितैकमज्ञापकस्याऽऽत्मानं विहाय यत परस्मिन् वर्तते तदपि द्रव्यमालमसौ नेच्छतीत्यर्थः। मन्दमतिशिक्षावबोधार्थश्वाऽनभिमतमतिवेधः, अन्यथा अभिमते कथितेऽनभिमतमर्थापतितो गम्यत एव ॥ इति गाथार्थः॥४०॥
अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयमाह
नोतीतमणुप्पन्नं परकीयं वा पओअणाभावा । दिलैंतो खरसिंगं परधणमहवा जहा विफलं ॥४१॥ .
अतीतमनुत्पन्नंचवस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, स्टान्तस्तु खरशृङ्गम् , असत्त्वे चातीताऽनागतयोद्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्त्व एवं धर्माणामुपपद्यमानत्वादिति । द्वितीयप्रयोगः क्रियते-परकीयमपि यज्ञदत्तसंबन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सद् नास्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयो दृष्टान्तः । इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् १ ॥ इति गाथार्थः ॥४१॥ शब्द-समभिरूढे-वंभूतास्तु विशुद्धनयत्वादागमतो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् १, इत्याहजाणं नाणुवउत्तोऽणुवउत्तो वा न याणइ जम्हा । जाणतोऽणुवउत्तोत्ति बिंति सहादयोऽवत्थु ॥४२॥
जम्हा इति यस्मात् जानन्नवबुध्यमानो 'मङ्गलं ' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते, अज्ञायकत्वाभिमतवत् , काष्ठादिवद् वेत्यर्थः। तस्माज्जानन्ननुपयुक्तश्चेत्येतदप्यवस्तु असदभाव इति यावत् । एतद् ब्रुवते शब्दादयः शब्द-समभिरूढ-वंभूतनयाः॥ इति गाथार्थः॥ ४२ ॥
. मातीतमनुत्पन्नं परकीयं वा प्रयोजनाभावात् । दृष्टान्तः खरशङ्ग परधनमथवा यथा विफलम् ॥ ४॥+शिया,,
२ जानन नाऽनुपयुक्तः अनुपयुक्तो वा न जानाति यस्मात् । जानअनुपयुक्त इति शुवते शब्दादयोऽवस्तु ॥ ४२ ॥ अत्राऽर्थे उपपत्तिमाह
'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ । न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥४३॥
जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः ?, इत्याह-'विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा जीवश्चेतनारहितः। इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो शमी कथं द्रव्यमङ्गकमिच्छन्ति, इति भावः । इति गाथार्थः॥४३॥
तदेवं विचारितं नौव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च शशरीर- भव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह
__मंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भणिअं॥४॥
'नोआगमओ दव्वं ति नोआगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः। का?, इत्याह-मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतिइह मङ्गलपदार्थः पूर्व येन स्वयं सम्यग् विज्ञातः परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविषमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमालमुच्यते । नोशब्दस्येह सर्वनिषेधवचनत्वात् । आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, सजीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमालमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले
हेतुर्विधर्मस्वात् हि जीव इव चेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापमिव ॥३॥ मालपदार्थज्ञायकदेहो भव्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥४४॥
For Private and Personal Use Only