________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
-
.
ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्य बकुलाऽशोक-चम्पक-नाग-पुन्नागा-ऽऽम्र-सर्जा-ऽर्जुनादिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा । यद्यर्थान्तरम् , तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिलक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावात् , खरविषाणवत् । क एवमाह ?, व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च । एतौ हि लोकव्यवहारानुयायिनी, तद्वयवहारश्च मायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भावः। अथानुपलब्धिलक्षणप्राप्तं तदभ्युपगम्यते, तथापि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात् , गगनकुसुमवदिति । अथ विशेषेभ्योऽनन्तरं तदिति द्वितीयपक्षः, तर्हि विशेपा एव तत् , तेभ्योऽनर्थान्तरभूतत्वात् , विशेषाणामात्मस्वरूपवदिति । यदि च विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्त्विकमनेकत्वं बाधते ॥ इति गाथार्थः ॥ ३५॥ एतदेव समर्थयते
चूयाईएहिंतो को सो अण्णो वणस्सई नाम ?। नत्थि विसेसत्थंतरभावाओ सो खपुप्फ व ॥ ३६ ॥
चूतादिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रण-पिण्डी-पादलेपादिके लोकव्यवहारे उपयुज्येत? न कोऽपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम, खपुष्पवत इति पूर्वोक्तमेवार्थ निगमनद्वारेणाह-'नत्थीत्यादि' तस्माद् नास्त्यसौ सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सदूपेभ्यो विशेषेभ्योऽर्थान्तरभावात् खपुष्पवत् । सद्रूपेभ्यो हि विशेषेभ्योऽथान्तरं भवत् असद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत् ॥ इति गाथार्थः ॥ ३६॥ किं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थयतः १, इत्याहजै नेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दो वि ॥ ३७॥
यद् यस्माद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारस्त्यागाऽऽदानादिकः प्रायेण विशेषमयो विशेषनिष्ठ एष दृश्यते, सामान्यस्य व्रणपिण्ड्यादौ लोकेऽनुपयोगात् । 'वनं' 'सेना' इत्यादौ कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणौ विशेषाभ्युपगमपरौ ॥ इति गाथार्थः॥३७॥
चूतादिभ्यः कः सोऽन्यो वनस्पति म । नास्ति विशेषार्थान्तरभावात् स खपुष्पभिव ॥ ३६॥
२ यद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च । प्रायेण विशेषमयस्तस्मात् तौ तमाहिणी द्वावपि ॥३॥ अत्र परः पाह'तेसिं तुल्लमयत्ते कोणु विसेसोऽभिहाणओ अन्नो ? । तुल्लत्ते वि इहं नेगमस्स वत्थंतरे भेओ ॥ ३८ ॥
तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवादितया सदृशाभिप्रायत्वे सति 'णु' वितर्के, अभिधानं नाम ततोऽन्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः । एको नैगमः, अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय इति भावः । आचार्य आह-'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम्, । तथापि तस्मिन् सत्यपि वस्त्वन्तरे सामान्यादिके भेदो नानात्वमस्त्येव ॥ इति गाथार्थः॥ ३८ ॥
अथवा नैगमव्यवहारयोरनेन तुल्यमैतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टव्य इति दर्शयन्नाह
जो सामण्णग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥३९॥
अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः । तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'जं नेगमववहारा' इत्यादिना तुल्यनिर्देशः । ततश्च 'तेसि तुल्लमयत्ते को णु विसेसो' इत्यादिना यदेकत्वं परेण प्रेरितं तदस्माकंन क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः संख्यायास्त्रुट्यति, तथा च सति षडेव नयाः प्रसजन्तीति चेत् । मौत्सुक्यं भजस्व, सर्वमत्रार्थे पुरस्ताद् वक्ष्यामः ॥ इति गाथार्थः ॥ ३९॥
अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहउज्जुसुअस्स सयं संपयं च जं मंगलं तयं एकं । नातीतमणुप्पन्नं मंगलमिटुं परकं व ॥ ४ ॥
१तयोस्तुल्यमतत्वे को नु विशेषोऽभिधानतोऽन्यः । तुल्यत्वेऽपीह नैगमस्य वस्त्वन्तरे भेदः ॥ ३८ ॥xमतस्थापनेन२ यः सामान्यसाही स नैगमः संग्रहं गतोऽथवा । इतरो व्यवहारमितो यस्तेन समाननिर्देशः ॥ ३९ ॥ ३ गाथा ३७ । ४ गाथा ३८ ।' ५ अजुमूत्रस्य स्वकं सांप्रतं च यद् मङ्गलं तदेकम् । नातीतमनुत्पन्न मङ्गलमिष्टं परकीयं वा ॥४॥
For Private and Personal Use Only