________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
14
विशेषा०
सर्वस्मिन्नपि लोके एकमेव द्रव्यमङ्गलम् । सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलत्वमाप्तेः, सामान्यस्य च त्रिभुवनेऽप्येकत्वात् ।। इति गाथार्थः ॥ ३१ ॥
एतदेवाह
ऐकं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नस्थि विसेसो खपुप्फ व ॥ ३२ ॥
एकमद्वितीयत्वादेकसंख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात् , तत्राह-नित्यमनपोयि । नित्यमप्याकाशवत सावयवं स्यात् , तभिरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् , इत्यत्राह-निरवयवमनंशं, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत सक्रिय स्यात् , अत आह- अक्रिय क्रियारहितम् , परिस्पन्दविनिमुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यात, अत्राहसर्वगं च सकललोकाऽवाप्तसत्ताकम् । इदमित्थंभूतं सामान्यमेवास्ति, न तु विशेषः कश्चनाऽपि विद्यते । कुत इत्याह-निःसामान्यत्वात सामान्यविरहितत्वात् , खपुष्पवत् , यच्चाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः । तस्मादेकस्माद् द्रव्यमालसामान्यादव्यतिरिक्तत्वाद तव्यतिरेके चाद्रव्यमङ्गलतामसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३२॥
अत्र विशेषवादिनयमतस्थितः कश्चिदाह- ननु कथमनेकानि द्रव्यमङ्गलानि न संभवन्ति ?, यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लता-वीरुदादयो विशेषा एव प्रतीयन्ते न पुनस्तदतिरिक्तः कश्चिद् वनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्परूपकलक्षणा विशेषा एवाऽवगम्यन्ते न तु तदधिकं किश्चित् सामान्यम् , अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते- 'निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व' इति ?, इति विशेषवादिना प्रोक्ते सामान्यवादी संग्रहः प्राह-ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनर्थान्तरभूताः, हस्तस्येवाङ्गुलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽङ्गुल्यादयः प्रतीयमाना हस्ताद् न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षादयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । अथोपपत्त्यन्तरेणाऽपि सामान्यवाद्येव वृक्षादीनां सर्वेपामपि वनस्पतिसामान्यरूपतां समर्थयन्नाह
१ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ॥ ३२ ॥ २ ख. 'पायम् ॥ चूओ वणस्सइच्चिय मूलाइगुणो त्ति तस्समूहो व्य । गुम्मादओ वि एवं सव्वे न वणस्सइविसिट्ठा॥३३॥
'चूतः' आम्रो वनस्पतिरेव वनस्पतिसामान्य न व्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्पफल-बीजादिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः इह यो यो मूलादिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहा, मूलादिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्मादयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वात , गुल्मसमूहवत , इति । एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्तत्वं साधनीयम् । तद्वयतिरेके सर्वत्र मृन्मयत्वादिमसको बाधकं प्रमाणम् । तस्मात् सामान्यमेवाऽस्ति, न विशेषाः ॥ इति गाथार्थः॥३३॥
किश्व
सोमन्नाउ विसेसो अन्नोऽणन्नो व होज, जइ अण्णो।सो नत्थि खपुप्फ पिवऽणण्णो सामन्नमेव तयं ॥३॥
भो विशेषवादिन ! सामान्याद विशेषोऽन्यो वा स्यात अनन्यो वा १. इति विकल्पदयम । यद्यायो विकल्पः, तर्हि नास्त्येव विशषः, निःसामान्यत्वात् , खपुष्पवत्-इह यद् यत् सामान्यविनिमुक्तं तत तद् नास्ति, यथा गगनारविन्दम् , सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाज्यामिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसौ, तदनन्यत्वात् , सामान्यात्मवत्, यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितयां सामान्येऽपि विशेषोपचारः क्रियते, तर्हि नकोंचित कचित क्षतिः न हयुपचारेणोच्यमानो भेदस्ताविकमेकत्वं बाधितुमलम् , तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमङ्गलम् ॥ इति गाथार्थः॥३४॥
तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनौ नैगमव्यवहारावाहतु:ने विसेसत्यंतरभूअमत्थि सामण्णमाह ववहारो । उवलंभववहाराभावाओ खरविसाणं व ॥ ३५ ॥
१ चूतो वनस्पतिरेव मूलादिगुण इति तस्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ ३३ ॥ २ सामान्याद् विशेषोऽन्योऽनन्यो वा भवेत् , यगन्यः । स नास्ति खपुष्पमिव, अनन्यः सामान्यमेव तत् ॥ ३४॥ ३ क. 'द्वितीयपक्षः'।४ क. 'कदाचित् क्षतिः' । ख. ग. 'काचित् क्षतिः । ५ न विशेषार्थान्तरभूतमस्ति सामान्यमाह व्यवहारः । उपलम्भन्यवहाराभावात् खरविषाणमिव ॥१५॥
For Private and Personal Use Only